पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चशती


पूर्वः परं क्ष[१]णरुचा समुपैति मैत्री-
 मन्यस्तु संतता प्रकटीकरोति ॥ ३९ ॥
सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद-
 साहाय्यकेन विचरनपवर्गमार्गे ।
संसारपकनिचये न पतत्यमुं, ते
 कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४०॥
कामाक्षि संततमसौ हरिनीलरत्न -
 स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः
बद्धोऽपि भक्तिनिगडैर्मम चित्तहस्ती
 स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥ ४१ ॥
कामाक्षि कार्षण्यमपि संततमञ्जनं च
 बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः ।
वैमल्यमन्वहमनञ्जनतां च भूयः
 स्थैर्यं च भक्तहृदयाय कथं ददाति ॥ ४२ ॥
मन्दसितस्तबकितं मणिकुण्डलांशु-
 स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।
कामाक्षि राजति कटाक्षरुत्वे: कदम्ब-
 मुद्यानमम्ब करुणाहरिणेक्षणायाः ॥ ४३ ॥
कामाक्षि तावककटाक्षमहेन्द्रनील-
 सिंहासनं श्रितवतो. मकरध्वजस्य
साम्राज्यमङ्गलविधौ मणिकुण्डलश्री-
 र्नीराजनोत्सवतरङ्गितदीपमाला ॥ ४४ ॥


  1. विद्युता; (पक्षे) क्षणमात्रस्थायिन्या कान्त्या