पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
काव्यमाला।


न कारणमपेक्षन्ते कवयः स्तोतुमुधताः ।
किंचिदस्तुवतां तेषां जिह्वा फु[१] रफुरायते ॥ ३४ ॥
स्तुतं स्तुवन्ति कवयो न खत्तो गुणदर्शिनः ।
कीटः कश्चिदलिन म क्रियती सत्र वर्णनाः ॥ ३५ ॥
एकैव कविता पुंसां प्रामायाश्वाय हस्तिने ।
अन्ततोऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥ ३६ ॥
शब्दात्यमपरं ब्रह्म संदर्भण परिष्कृतम् ।
विक्रीयते कतिपयैथान्यैर्विनियुज्यते ॥ ३७ ॥
वर्णवन्ति नराभासावाणी लब्ध्वापि ये जनाः।
लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ ३८ ॥
प्रशंसन्तो नरामासान्प्रलपन्तोऽन्यथान्यथा ।
कथं तरन्तु कवयः कामपारम्यवादिनः ॥ ३९ ॥
वत्संदर्भ यदुल्लेखे यव्यङ्गये निभृतं मनः ।
समाधेरपि तज्यायः शंकरो यदि वयते ॥ ४० ॥
गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्यपि ।
प्राणिनां कलिना सृष्टाः पञ्च प्राणा इमेऽपरे ॥ ४१ ॥
जामातरो भागिनेया मातुला दारबान्धवाः ।
अज्ञाता एव गृहिणां भक्षयन्त्याखुवहे ॥ ४२ ॥
मातुलस्य बलं माता जामातुर्दुहिता बलम्
श्वशुरस्य बले भार्या स्वयमेवातिथेबेलम् ॥ ४३ ॥
जामातुर्वक्रता तावद्यावच्छयालस्य बालता ।
प्र[२]बुद्धमात्रे सारल्य प्रबुद्धेऽसिन्पलायनम् ॥ ४४ ॥


  1. धुरुधुरायते' इति पाठः
  2. प्रबुध्यमान इति पाठ: