रामाधन्मनाः प्रकृष्टो यो मोदः स एव मदिरा तया.माद्यन्मनो यस्य स एतादृशस्त्वं मा स्म भूः। 'माडि लुङ् इति लुङ् । 'न माल्योगे! इत्यडागमाभावः । किं तु बहुविधां तपोनुष्ठानादिरूपां कष्टक्रियां कष्टसाध्या क्रिया कष्टक्रिया तां कष्टक्रियाम् अभ्यत्य अभ्यासं कृत्वा आजन्म यदर्जितं जन्मनो
मर्यादीकृत्यं यत्सुकृतमर्जितं तस्य सुकृतस्य त्वया अयं हस्तो अदायि दत्तः ।
यथा कस्य आजिगमिषोः हस्तप्रदानः संज्ञया निषेधयति तथा हस्तदानेन सुकृतं निषिद्धं इन्ति त्वं संचिन्तये- . विचारयरित्यर्थः । अत्र पद्ये हस्तो न्यस्तः
सुकृतस्य हस्तोऽदायीति चित्रकृत् ॥
कण्ठोपकण्ठे लुलितं विभावयेर्भुजं युक्त्या भुजगं गराजितम् । |
कण्डोपकण्ठे कण्ठस्य गलस्य समीपे कण्ठोपकण्ठे लुलितं वलितं युनत्याः स्त्रिया भुजं बाहुं भुजगं सर्पं त्वं विभावयेर्जानीयाः ! कथंभूतं भुजः गम् । गराजित गरेण विषेण अजितो गराजितस्तम् । एतस्य भुजगस्य संस्पर्शवसात् स्पर्शमात्रेणापि अशेषं समस्तं चैतन्यं चेतनाया. भावः क्षणात् संक्षयं भाशं उपैति प्राप्नोति । यथा भुजगस्पर्शाच्चैतन्यं याति तथा युवत्या भुजस्पर्शादेव चैतन्यनाशः स्यादित्यर्थः । भुजं भुजगं कथं स्वादिति प्रश्ने भुजं गराजितं गेन गकारेण राजितं भुज भुजगः स्यादित्यर्थः । इन्द्रवंशा नाम च्छन्दः ॥
काठावसक्ते कुपिते. नवाहौ बरं बहिःप्राणहरे प्रमोदः । |
नुः पुरुषस्य नवाहौ नवश्वासावहिश्च नवाहिस्तस्मिन्नवीनसर्पे कण्ठावसक्ते कन्ठस्थापिते वरं श्रेष्ठम् । कथंभूते. नवाहौ । कुपिते क्रुद्धे । पुनः कथंभूते नवाहौ । बहिः प्राणहरे । बहिःप्राणान्हरतीति बहिःप्राणहरस्तसिन्बाह्यप्राणनाशके । स्त्रैणे स्त्रीयामय स्त्रैणस्तस्मिन् । स्त्रीपुंसाभ्यां नव्स्रजो' इति नञ्प्रत्यय आदिवृद्धौ णत्वे स्त्रैणशब्दासिद्धिः बाहौ भुजे कण्ठावसक्ते सति या प्रमोदो हर्ष स विदुषां पण्डिताना युक्तो नः कथंभूते बाहौ । विध्वस्तधर्मान्तरजी-
- ↑ "तु' इति मूलपुस्तकपाठः