पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
शृङ्गारवैराग्यतरङ्गिणी।


रम् । कथंभूताः कराः । कान्ता ककारान्ता इत्यर्थः । तादृशा करीः करकः भवन्त्येवेत्यर्थः ॥

नीव्याप्तमस्या हरिणेक्षणाया यं वीक्ष्य हार ह्रदि हर्षमेषि ।
विवेकपङ्केरूहकाननस्य तमेव नीहारमुदाहरन्ति ॥ २५ ॥

 अस्या हरिप्रेक्षणाया हरिणस्य ईक्षणमिवेक्षणं यस्यास्तस्याः यं हारं वीक्ष्य त्वं हृदि ह्रदये हर्षं प्रमोदं एषि प्राप्नोषि । कथंभूतं हारम् । नीव्याप्तं नीवीं वसनगन्थि आप्तं प्राप्तं नीव्याप्तंम् । नीवीपर्यन्तं लम्बायमानमित्यर्थः । बुधाः सं हारमेव विवेकपङ्केरुहकाननस्य बिवेक एवं पङ्केरूहं कमलं तस्य काननं वनं तस्य नीहारं हिमं उदाहरन्ति कथयन्ति । नीहारो यथा कमलकाननस्य दाहकस्तथायं हारः । हृदि हारवर्णनं विवेकनाशकमित्यर्थः । हारं कथः नीहारमिति प्रश्ने तत्रोच्यते-कथंभूतं हारम् । नीव्याप्तं नीशब्देन व्याप्तं नीव्याप्तं एतादृशं हारं नीहारं स्यात् ॥

विलोक्य किं सुन्दरमङ्गनोदरं करोषि मोहं मदनज्वरातुर ।
नो[१] ईक्षसे दुर्गतिपातसंभवं भवान्तरे भाविनमङ्ग नो दरम् ॥ २६॥

 हे मदनज्वरातुर, मदनः कामः स एव ज्वरतेन आतुरस्तस्य संबोधनम् । सुन्दरं दर्शनार्हं अङ्गनोदरं अङ्गनाया उदरं विलोक्य त्वं कि मोहं करोषि । अङ्गेत्वामंत्रणे । भवान्तरे आगामिभवे भाविनं भवनशीलं दरं भयं कि वो ईक्षसे न विचारयसि । कथंभूतं दरम् । दुर्गतिपातसंभवं दुर्गतिर्नरकादिस्तस्यां यः पातः पतनं तस्मिन् संभव उत्पत्तिर्यस्य तम् । अत्र पूर्वं अङ्गनोदरमितिः समस्तं पदम् । परत्र अङ्ग नो दरमिति पदविभागेनार्थव्युत्पादनं चित्रम् ॥

स्फूर्जन्मनोभवभुजंगमपाशनाभी.
 नाभी कुरङ्गकदृशां दृशि यस्य लग्ना
नाभीमयं जगदशेषमुदीक्षतेऽ[२]सौ
 यो यत्र रज्यति स तन्मयमेव पश्येत् ॥ २७ ॥

 यस्य पुरुषस्य दृशि नेत्रे कुरङ्गकदृशा वृगनेत्राणां स्त्रीणां नाभी शरीरा-


  1. 'किमीक्षसे दुर्गनिपात' इति भूलपुस्तकपाठः,
  2. 'स' इति मूलपुस्तकपात