पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
कोटिविरहम् ।

विदितविगतिमूलैः सा सखीनां निकायैः
 सततमथ वचोभिः सम्यगाश्वास्यमाना ।
कथमपि धृतशोका वासरान्वत्सराभा-
 न्परिचितधृति निन्ये पञ्चषानञ्चिताङ्गी ॥ २२ ॥
स्फुटमिव कथयन्तीमन्तरुज्जृम्भमाणां
 कुसुमविशिखपीडां मुग्धपातैः कटाक्षैः
स च मधुरमुखीं तां वीक्षमाणः प्रयान्तीं
 युगपदभिहतोऽभूदायुधैरङ्गयोनेः ॥ २३ ॥
चतुरवचनभेदव्यञ्जितातीतवृत्तै-
 स्तद्नु सह वयस्यैरेष मन्दं जगाम ।
गलदतिगुरुकैश्य गन्धमातङ्गमन्द
 गमनमनधगाभ्याश्चिन्तयन्नन्धचेताः ॥ २४ ॥
गवा गेहं प्रियसहचरैः साकमारूढमूलं
 [१]मारात मनसि सततं गृहमानोऽपि धीमान्
तामेवान्तस्तरलनयनां कल्पयनल्पधैर्य
 क्षामक्षामः समजनि दिनैः पञ्चपैरेष कामी ॥ २५ ॥
वक्त्रं तदुद्गतमनोहरमन्दहासं
 वक्षोरुहावपि च तौ क्रमवर्धमानौ
विस्तारितं जघनमित्यनुवेलमस्य
  चित्तं क्रमेण तरुणीमयमेव जातम् ॥ २६॥
तस्मिन्ननुक्षणमिति प्रविजृम्ममाणे
 मारामये स तु कदाचिदुदारधामा ।


  1. कामव्यथाम्