ये वक्र शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह-
द्वेषोद्धोषण चातुरीमिव तिरस्कर्तु[१] परिष्कुर्वते ॥ ३२ ॥
कुर्युर्नः कुलशैलराजतनये कूलंकचं मङ्गलं
कुन्दस्पर्धनचुञ्चवस्तव शिवे मन्दस्मितप्रक्रमाः
ये कामाक्षि समस्तसाक्षिनयनं संतोषयन्त्यान्तरं
कर्पूरप्रकरा इव प्रसृभराः पुंसामसाधारणाः ॥ ३३ ॥
क्रमेण स्नपयस्व कर्मकुहनाचोरेण माशगम-
व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा ।
कामाक्षि स्मितकन्दलेन कलुषस्फोटक्रियाचुञ्चुना
कारूण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥ ३४ ॥
त्वन्मन्दस्मितकन्दलस्य नियतं कामाक्षि शङ्कामहे
बिम्बः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः।
किं च क्षीरपयोनिधि प्रतिनिधिः स्वर्वाहिनीवीचिका-
बिब्लोकोऽपि विडम्ब एव कुहना माहीमतल्लीरूचः ॥ ३५ ॥
दुष्कर्मार्कनिसर्गकर्कशमहः संपर्कतप्तं मिल
त्पङ्क शंकरवल्लभे मम मनः काञ्चीपुरालंक्रिये
अम्ब त्वन्मृदुलस्मितामृतरसे मद्क्त्वा विधूय व्यञ्चा-
मानन्दोदयसौधशुङ्गपदवीमारोढुमाकाङ्क्षति ॥ ३६ ॥
नम्राणां नगराजशेखरसुते नाकालयानां पुरः
कामाक्षि त्वस्या विपत्प्रशमने कारूण्यधाराः किरन्
आगच्छन्तमनुग्रहं प्रकटयक्षीनन्दवीजानि ते
नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥ ३७ ॥