पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
काव्यमाला।

कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी
 स्फुरन्ती, कामाक्ष्याश्चरणरुचिसंध्या विजयते ॥ ७ ॥
बिरावैर्माञ्जीरैः किमपि कथयन्तीव मधुरं.
 पुरस्तादानम्रे पुरविजयिनि स्मेरवदने
वयस्येव प्रौढा शिथिलयत्ति या प्रेमकलह-
 प्ररोहं कामाक्ष्याश्चरणयुगली सा विजयते ॥ ८ ॥
सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः
 स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः
भृतं कान्त्यम्भोभिर्विसृमरमरन्दैः सरसिजै-
 र्विधत्ते कामाक्ष्याश्चरणयुगलं बन्धुपदवीम् ॥ ९ ॥
रजःसंसर्गेऽपि स्थितमजरसामेव हृदये
 पर रक्तत्वेन स्थितभपि विरक्तैकशरणम् ।
अलभ्यं मन्दानां दधदपि सदा मन्दगतितां
 विधत्ते कामाक्ष्याश्चरणयुगमाश्चर्यलहरीम् ॥ १० ॥
जटाला मञ्जीरस्फुरदरूणरत्नांशुनिकरै-
 र्निषीदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् ।
परित्राणं कर्तु जननि मम कामाक्षि नियतं
 तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥ ११ ॥
तुलाकोटिद्वन्द्वकणितभणिताभीतिवचसो-
 र्विनम्रं कामाक्ष्या विसृमरमहःपाटलितयोः ।
क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः
 पुनीयान्मूर्धानं पुरहरपुरंध्रीचरणयोः ॥ १२ ॥