स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा-
वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥ १८ ॥
शिवे पाशायेत्तामलघुनि तमःकूपकुहरे
दिनाधीशायेतां मम हृदयपाथोजविपिने
नभोमासायेतां सरसकवितारीतिसरिति
त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥ १९ ॥
निष[१] क्त्तं श्रुत्यन्ते नयनामिव सद्धृत्तरुचिरैः
समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः ।
शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे.
त्वदीयं कामाक्षि पणतशरणं नौमि चरणम् ॥ २० ॥
नमस्यासंसज्जन्न[२]मुचिपरिपन्थिप्रणयिनी-
निसर्गप्रेङ्खोल[३] त्कुरलकुलकालाहिशबले ।
नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां
प्रचारं कामाक्षि प्रकटयति पादाब्जसुषमा ॥ २१ ॥
कदा दूरीकर्तुं कटुदुरितकाकोलजनितं
महान्तं संतापं मदनपरिपन्थिप्रियतने
[४]क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे
पटीयांसं लप्से पदकमलसेवामृतरसम् ॥ २२ ॥
ययोः सांध्यं रोचिः सत्ततमरुणिम्ने स्पृहयते
ययोश्चान्द्री कान्तिः परितपति दृष्ट्वा नखरुचिम् ।
ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं
म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३ ॥