पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
'४५
पञ्चशती।

श्रितो मात्स्य रूपं श्रियमपि दधानो निरुपमां
 त्रि [१] धामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३४॥
वषट्कुर्वन्माञ्जीरजकलकलैः कर्मलहरी-
 हवींषि प्रोद्दण्ड ज्वलति परमज्ञानदहने
महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां
 मनोवेद्यां मातस्तव चरणयज्वा मम सदा. ॥ ३५ ॥
महामन्त्रं काञ्चीमणिकटकनादैरिव जय-
 न्क्षिपन्दिक्षु स्नच्छं नखरूचिमयं भास्मनरजः
नतानां कामाक्षि प्रकृतिपटुरुचाट्य ममता-
 पिशाचीं पादोऽयं प्रकटयति ते मात्रिकदशाम् ॥ ३६॥
उदीते बोधेन्दौ तमसि नितरां जग्मषि दशा
 दरिद्रां कामाक्षि प्रकटमनुरागं विद[२]धती
सितेनाच्छाधाङ्गं नखरुचिपटेनाङ्घ्रियुगली-
 पुरंध्री ते मातः स्वयमभि[३]सरत्येव हृदयम् ॥ ३७॥
दिनारम्भः सध्यङ्गलिनविपिनानामभिनवो
 विकासो वासन्तः सुकविपिकलोकस्य नियतम् ।
प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन-
 श्वकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८ ॥
धृतच्छायं नित्यं सरसिरूहमैत्री[४]परिचितं
 निधानं दीप्तीनां निखिलजगतां बोधजनकम्
मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं
 पद ते पातङ्गीं परिकल्यते पर्वतसुते ॥ ३९ ॥


  1. विष्णः
  2. च दधती इति श-पाठः
  3. सरलोव इति ग-पाठः
  4. परिचितिं दधान' इति ग-पाठः,