ललिताललनालीलोदञ्चद्विलोलविलोचनो
त्पलवनरुचां चञ्चन्तीनां चयैरिव चर्चिता
सुरभिसुहृदः पक्षच्छायावृत्तेव च षट्पदैः
कुसुमधनुषः श्यामा मूर्तिस्तनोतु सुखानि वः ॥ १ ॥
भ्रमद्भ्रमरकेतकीविकसदेवपत्रप्रभाः
सनीलमणिनायका इव विमुक्तमुक्तालताः
दृशः शशिकला इव प्रचितपक्ष्मलेशाङ्किता
जयन्ति हरिणीदृशाममृतकालकूटच्छटाः ॥ २ ॥
ऋतुं धनानां फलमग्र्यमाहुः फलं ऋतूनामविवादि पुण्यम् ।
पुण्यस्य पूर्णं फलमिन्द्रलोको द्विरष्टवर्षाः स्त्रिय एव नाकः ॥ ३ ॥
एताः सन्ति वधूविलासकुटिला भ्रूकार्मुकश्रेणयः
कर्णान्तायतपातिनश्च तरुणीनेत्रत्रिभागेषवः ।
निर्दधोऽन्धकवैरिणा नवमनःक्षोभाभियोगोद्भवा-
त्संरम्भादविचार्य केवलमसौ मिथ्या तपस्वी स्मरः ॥ ४ ॥
लज्जावको मनसिजधनुर्भ्रूविलासेन तन्व्या-
श्चिन्ता पाण्डुः स्पृशति कृशतां वक्रकान्त्या शशाङ्कः
यात्येवाधः प्रहसितरुचिर्दोलताभ्यां मृणाली
क्लीबं धत्ते कुवलयकुलं कालिमानं कटाक्षः ॥ ५ ॥
अयोमयानां हृदयेषु तेषां कोऽप्यस्ति नूनं कुलिशोपदेशः ।
सोढानि यः प्रौढविलासिनीनां कर्णान्तमुक्तानि विलोचनानि ॥ ६ ॥
कुवलयमयी लोलापाङ्गे तरङ्गमयी भ्रुवो;
शशिशतमयी वक्रे गात्रे मृणाललतामयी ।