पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१०८

पुटमेतत् सुपुष्टितम्

वेगाप्ते कालयवने मुचुकुन्दमशिश्रियत् ।
शौरिः शयनपर्यङ्कतलसंकुचिताकृतिः ॥ १६ ॥

शिशुपालस्य शिरसि च्छिन्ने चक्रेण चक्रिणा ।
दृष्टिः कृता न चापेषु नृपैस्तत्पक्षपातिभिः ॥ १७ ॥

भीमनिष्पीयमाणासृग्दृष्टो दुर्योधनानुजः ।
अशस्त्राभिरिव स्त्रीमिद्रोणकर्णकृपादिभिः ॥ १८ ॥

स्फाराजगरसंरुद्धभुजद्वन्द्वो वृकोदरः ।
जननीकरुणाक्रन्दनिनादमुखरोऽभवत् ॥ १९ ॥

महतामपि पूर्वेषामेबंरूपा मदक्षितिः ।
सामान्यविक्रमोद्दामश्लाघा केनाभिनन्द्यते ॥२०॥

अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता ।
छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥ २१ ॥

निष्कारणनृशंसस्य शौर्यं हिंस्रत्वमुच्यते ।
यः सर्प इव संनद्धः प्राणबाधाय देहिनाम् ॥ २२ ॥

एतदेव परं शौर्यं यत्परप्राणरक्षणम् ।
नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम् ।। २३ ।।

न कश्चिद्बुद्धिहीनस्य शौर्येण क्रियते गुणः ।
पर्जन्यगर्जितामर्षी श्वःभ्रे पतति केसरी ॥ २४ ॥

किं शौर्येण सरागस्य मदक्षीबस्य दन्तिनः ।
बन्धकीलाभलोमेन यः क्षिपत्यवटे तनुम् ॥ २५ ॥

शौर्यं विक्रीतकायस्य सेवकस्य किमद्भुतम् ।
मेषस्येव वधो यस्य सूनाबद्धस्य निश्चितः ।। २६॥

न दर्पविकृतं शौर्यं न मायामलिनं मनः ।
न द्वेषोष्ण श्रुतं येषां गण्यन्ते तद्गुणा बुधैः ॥ २७ ॥

कुलं कुतनयेनेव लोभेनेव गुणोदयः ।
ऐश्वर्यं दुर्नयेनेव शौर्यं दर्पेण नश्यति ॥ २८॥

१. "आसक्ता क. २. 'यशःख. ३. 'गुणाः ख.