पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/११४

पुटमेतत् सुपुष्टितम्

सक्तुपात्रे ततः सिद्धे कृतदेवपितृक्रियः । जायापुत्रविभागेन स्वं भागं भोक्तुमुद्ययौ ॥ ४० ॥

स प्राणाहुतितोयार्थी ददर्शातिथिमागतम् । क्षुत्क्षामकुक्षिं संक्षिप्तसर्वाङ्गशिथिलाकृतिम् ॥ ४१ ।।

तस्मै विहितसत्कारः सप्रसादेन चेतसा । श्रद्धासुधावसिक्तं तत्स ददौ निजभोजनम् ॥ १२ ॥

निगीर्णेऽतिथिना तस्मिन्नक्षीणक्षुद्विकारिणा । तद्भार्याप्यादरवती तस्मै स्वमशनं ददौ ॥ ४३ ॥

तेनाप्यतृप्तिमालोक्य तत्सूनुः श्रद्धयातिथिम् । स्वभोजनेन विदधे संपूर्णाशननिर्वृतम् ॥ १४ ॥

गते भुक्त्वातिथौ तस्मिन्नुपवासकृशो द्विजः । सत्त्वोत्साहयुतस्तस्थौ क्लान्तोऽपि निशि निर्व्यथः ॥ ४५ ॥

अथाहं सक्तुगन्धेन निर्गतः क्षुधितो बिलात् । प्राप्तस्तत्पर्णकुटिकामुत्सृष्टोच्छिष्टवर्तिनीम् ॥ १६ ॥

तत्राचमनतोयेन स्पृष्टमात्रस्य मे नृप । पश्य मे दक्षिणं पार्श्वं जातं हेममयच्छवि ॥ १७ ॥

ततोऽहं बामपार्श्वस्य हेमच्छायाप्तये सदा। निर्निद्रश्चिन्तया यातः कृशतामेव केवलम् ॥ १८॥

यद्यत्प्राप्नोति पुरुषः कर्मयोगात्समीहितम् । तत्तत्संपूरणायैव याति चिन्ताविधेयताम् ॥ ४९ ॥

अधुना वर्तमानेऽस्मिन्नश्वमेधे तव क्रतौ । हेमपार्श्वाशयायातो विप्रोच्छिष्टामहीमहम् ॥ ५० ॥

रत्नकाञ्चनपात्राम्बुसिक्तस्य लुठतश्चिरम् । मम कान्तिलवोऽप्यङ्गे न कश्चिदिह दृश्यते ॥ ५१ ॥

सर्वथा सत्त्वशुद्धाय दानायातिलघीयसे । नमो महाफलायैव न भोगाङ्गप्रसङ्गिने ।। ५२ ॥१. 'माने' क. २. 'कुक्षिस्तं' क. ३. 'तस्मिन्क्षणेन' क. ४. 'सिक्तासूठतः' क.