पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२१

पुटमेतत् सुपुष्टितम्

इत्युक्तं त्रिपुरारिणा गिरिसुता श्रुत्वा यथार्थ वचो
निश्चित्य व्रतमप्रशान्तमनसां मिथ्यैव कायक्षयन् ।
संसारोपरमाय मोहरजसः शान्त्यै मुनीनां परं
रागद्वेषविमुक्तये चं दयया चके हरस्यार्थनाम् ॥ ७० ॥

देव्यार्थितोऽथ भगवान्कृपया स्मरारि-
स्तेषामनुग्रहमयेन विलोकनेन ।
चक्रे स्मितस् पितदिग्वदनो मुनीनां
लीनस्य मोहरजसः सहसैव शान्तिम् ॥ ७१ ॥

तपोविशेषैनिशितप्रयत्नैस्तरमान्न कार्यः पृथुमोहदर्पः ।
द्वेषेण रागेण महोदयेन तपः क्षयं याति सह स्मयेन ॥ ७२ ॥

प्रशान्तोऽन्तस्तृष्णाविषमपरितापः शमजलै-
रशेषः संतोषामृतविसरपानेन वपुषः ।
असङ्गः संभोगः कमलदलकीलालतुलया
भवारण्ये पुंसां पैरहितभुदारं खलु तपः ॥ ७३ ॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविहिते दर्पदलने तपोविचारः सप्तमः ।

समाप्तोऽयं ग्रन्थः ।

श्रीत्रिपाठिशिवरामप्रणीतो
रसरत्नहारः।
तत्प्रणीतयैव लक्ष्मी विहाराख्यटीकया समेतः।

सीताकराब्जमृदुलालितपादपद्मस्तस्या मुखं जलजसुन्दरनीक्षमाणः ।
रत्यन्वितस्य मदनस्य रुचिं दधानः श्रीमन्रघुप्रभववंशपतिर्विरेजे ।।

अन्यादौ कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति---

निरीक्ष्य विष्णोश्चरणारविन्दनखेषु लक्ष्मीः प्रतिबिम्बम स्मात् ।
दशावतारादपि मन्यमाना स्वाधिक्यमास्ताद्विदुषां सुखाय ॥ १ ॥

१. 'बत तथा' क. २. 'सुदृशैव' ख. ३. 'च विस्मयेन' ख. ४. 'परमिदं' ख. ५. 'सुखतमः क. ६. पुस्तकद्वयमस्य रसरत्नहारस्यास्माभिः समासादितम्. तन प्रथम डॉक्टर् पीटर् पीटर्सन्महाशयेन मथुरातः समानीतमष्टादशपत्रात्मकं सटीकं प्रायः शुद्ध क-संज्ञकम्. द्वितीयं जयपुर एव नारायणशास्त्रिसंग्रहादधिगतम् , तदपि सटीकं नातिशुद्धं विंशतिपत्रात्मकं ख-संज्ञक ज्ञेयम्,