पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० काव्यमाला। वाभ्यामाभिमुख्येत चरन्तो वर्तमाना निर्वेदादयो व्यभिचारिणो भावाः ॥” इति दशरूपके ॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। रौद्रवीभत्सशान्ताख्याः काव्ये नव रसाः स्मृताः ॥ ५ ॥ ननु नव रसा इत्यनुपपन्नम् । शृङ्गारस्य लोके आस्वाद्यतायाः सर्वानुभवसिद्धत्वा- स्काव्ये गुणालंकारयोगेनाधिकाखादगोचरतया रसत्वं युक्तम् , नेतरेषामिति केषांचित्सि- द्धान्त एव । तद्भिन्नमतेनेयं संख्योक्तिः । नन्वेवमपि नवरसा इत्यनुपपन्नम् । भक्तिवा- त्सल्यश्रद्धाख्यैत्रिभिः सह द्वादशसंख्यात्वात् । तत्र भक्तिर्भगवति प्रसिद्धा । श्रद्धाप्या- स्तिक्यनिश्चयात्मिका वेदशास्त्रार्थविषया शिष्टानांप्रसिद्धैव । वात्सल्यं पुत्रादौ स्नेहाभि- धानमिति चेत्, न । भक्तिवात्सल्ययोर्भावान्तर्भावात् , श्रद्धायाश्च सुखात्मकत्वाचमत्का- रानुत्पादान्तरसत्त्वमिति नवसंख्योक्तिर्न विरुद्धा । दशरूपके-'प्रीतिभक्तयादयो भावा मृगयाश्चादयो रसाः । हर्षोंत्साहादिषु स्पष्टमन्तर्भावान्न कीर्तिताः ॥' इति । नन्वेवमपि नवरसत्वं विरुद्धम् । नास्त्येव शान्तो रसः । आचार्येण विभावाद्यप्रतिपादनात् । अन्ये तु अनादिकालप्रवाहायातरागद्वेषयरुच्छेदस्याशक्यत्वात् (अन्ये तु) वीरवीभत्सादावन्त- र्भावं वर्णयन्ति । अमरसिंहोऽपि-'शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । वीभत्सरौद्रौ च रसाः' इति चेत्, सत्यम् । मतान्तररीत्या नवसंख्येति बोध्यम् । निर्वेदस्थायि- माधोऽस्ति शान्तोऽपि नवमो रसः।' इति काव्यप्रकाशे । 'सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः।' इति वाग्भटालंकारे॥ स्त्रीपुंसयोर्मिथो रागवृद्धिः शृङ्गार उच्यते । संभोगो विप्रल्म्भश्चेत्येष स्यद्द्विविधो द्वयोः ॥ ६ ॥ उक्तं च---"अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्श नादीनि स संभोगो मुदान्वितौ ॥ भावो यदा रतिर्नाम प्रकर्षमधिगच्छति । नाधिगच्छति चाभीष्टं विप्रल- म्भस्तदोच्यते ॥ मनोनुकूलेध्वर्थेषु सुखसंवेदनं रतिः।' इति रसलक्षणम् । संयुक्तयोः स्यात्संभोगो विप्रलम्भो वियुक्तयोः । प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा मतः ॥ ७ ॥ [स्पष्टम् । स्वीये नायिकादिवर्णनप्रकरणे रसमञ्जरीव्यवहारो भानुना कृतश्चिन्त्य एव । नहि केवलमालम्बनेन रसव्यवहारः । विभावानुभाव-' इत्यादिभरतसूत्रविरोधात् । 'आल- म्बनविभावत्वेन तावन्नायिका निरूप्यन्ते' इति सोऽपि चिन्त्य एव । आलम्बनविभावस्य नायिकानायकयोस्तुल्यत्वात् । किं च, 'पूर्व रक्ता भवेन्नारी पुमान्पश्चात्तदिङ्गितैः' इति नियमादादौ नायक(नायिका)वर्णनमुचितम् । स्वकृतौ त्विमं दोषं परिहरन्नाह- १. "स्ैमृतः'ख.