पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५८

पुटमेतत् सुपुष्टितम्

जानकीचरणचामरम् ।


त्रपावश्या पश्यंस्त्यजति ननु गीः कोशलपते-
रसूर्यंपश्यायाः पदकिसलयस्नानसलिलम् ।
भवेद्योगे नद्यो हिमवदहिमांशुप्रभवयो-
निलीना सेदानीमपि न पदवीं रोहति दृशोः ॥ ४७ ॥

स्फुटः स्यां चेद्याचेद्वितरणगुणं खं मणिगणः
खयं स्वर्गो वर्गः कुलमपि सुपर्वक्षितिरुहाम् ।
कविर्वा कुर्वीत प्रतिममितरैर्मामिति भृशं
विमृश्यादृश्यत्वं तव भजति गुल्फः किमु रमे ॥ ४८ ॥

मिलिन्दत्वं विन्दे यदि वसुमतीनन्दिनि तदा
त्वदीयाङ्घ्रिच्छायार्पितसरसमाल्यस्य रजसा ।
परिष्वक्तः शश्वद्गतिरहह यां यां दिशमिया-
बहं तस्यां तस्यां दिशि तदनुगः स्यामनुयुगम् ॥ १९ ॥

पटीरः स्यां कस्यामपि भुवि यदि क्षीरधिसुते
तदा केचिद्धन्याः शुभपरशुभिः खण्डश इमम् ।
सृजेयुर्मां धर्मावृति दृषदि मज्जेयुरपरे
दचीरन्वा धीरं तव पदरुहे केऽपि कृतिनः ॥ ५० ॥

निलिम्पस्त्रीहस्ताङ्गुलिकलितशक्राश्मशकलो-
र्मिकालोकस्तोकेतरमधुपसंपर्कमधुरम् ।
विहारक्ष्माहीरच्छविकुलसुधापल्वलनिभं
मदीयं वैदेहीचरणनलिनद्वन्द्वमखिलम् ॥ ५१ ॥

यदुन्मेषे भूषास्त्यजति गिरिजाजानिरुडपः
कलङ्कं पर्यङ्कं नलिननयनः पत्रमनिलः ।

१. जानक्या गीर्वाणी पश्यन्ती परादिवाग्भेदेषु द्वितीया भवति. सा च चरणप्रक्षा

लमजलमजति गच्छति. तत्र प्रविशतीति यावत्, इत्थं पावश्यतायाः परम्परागम- नात्प्रयागे तिरोहिता सरस्वती भवेत्. प्रयुञ्जते हि लोकाः-अयं तत्र लजया जलमा गत इति. गायमुनयोर्मध्ये जानकी वाणीरूपा सरखती लज्जया तिरोहिता तिष्ठतीति भावः, २. वायुः. ३. धर्मस्य यागहोमादेरावृदनुष्ठानं तस्यां योजयेयुः, ४. सर्वखभूतम्, ५. सर्परूपाणि भूषणानि तद्धनिभवणलोभेन क्षुब्धानि धारयितुं न शक्नोति. ६. मृग- रूपम्. ५. शेषनागकैपमू. ८, मंगरूपं वाहनम्, ६५० गुरु