पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६४

पुटमेतत् सुपुष्टितम्

जानकीचरणचामरम् ।

विदूराद्वन्दारुत्रिदशवरकोटीरशिखर-
स्फुरद्धीरक्षीरोज्ज्वलकरसहस्रद्युसरितः ।
यदिन्द्राश्मश्रेणीकिरणवरुणागारशरणा
विराजन्ते सन्तः स्मरत तदिलाजाङ्घ्रिकवचम् ॥ ८३ ॥

मुखब्रह्मब्रह्मप्रमुखसुरकोटीरशिखर-
स्फुरद्धीरक्षीरच्छविहरमहःपूरनिवहः ।
यदिन्द्राश्मश्रेणीकिरणनिकरे सागर इव
प्रवाहः खर्वाप्यास्तदवतु सवित्र्यङ्घ्रिकवचम् ।। ८४ ॥

समुद्रान्तर्निद्राप्रवणभगवच्चन्द्रवदना-
पदाधारोद्धारी स्फुटपुरटपीठोद्भवतटात् ।
पटुप्रेमप्रह्वामरकमुकुटोद्धृष्टकटका-
दुदञ्चद्धिः पुञ्जैः कनकरजसां पिञ्जरमुखः ।। ८५ ।।

पदावन्योर्धन्ये तव वितरणं वेत्यनिमिष-
द्रुमाली त्वल्लीलावनमुपगता नन्दनवनात् ।
भवत्यां खेलन्त्यामुपवनसरस्यां यदनयो-
स्तलस्थेये प्रेम्णा सृजति कुसुमैरर्चनमियम् ।। ८६ ॥

अजस्रं यः संस्रत्यभिनवमवत्पत्कवचयोः
समन्तात्सीमन्ताभरणनवसिन्दूरशबलः ।
तमेव खर्वामासुरभिकबरीमाल्यरजसां
कदम्बं हेरम्बः शिरसि कुरुते लम्बकरतः ।। ८७ ॥

पिधत्तस्त्वत्पत्रे चरणशतपत्रे तव जग-
त्प्रसिद्धे सिद्धीशे सुरतरुसुमौघः पुनरिमे।
इमं तावद्भावग्रहिलविबुधोत्तंसमहिला-
कबर्यस्ता एताश्चतुरमधुकर्यः पिदधते ॥ ८८ ॥

१. मुखे ब्रह्म वेदो येषाम्. २, गङ्गायाः. ३. भक्तो भवतीति शेषः, ४. सुरद्वमाधो- देशस्थितौ सत्याम्. ५. शुण्डादण्डेनादाय. ६, भवदीयपादत्राणे. ७. पादत्राणे.