पृष्ठम्:काव्यरत्नम्.pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ इहत्यान् मुख्यान् विषयान् संक्षिपती काचन सूची चरितजिज्ञासूनामुप- काराय साकमनेनैव सम्पुटेन मुखतः सङ्घटिता । तद्दिशा दशमसीयाष्टाचत्वा- रिशंश्लोके "श्रीमल्लिनाथगणिनाथ तदीरितेन पृष्टः समस्तविंदसौ निजगाद तत्त्वम् ।' इत्यंशेन श्रीमल्लिनाथगणिने भगवता मुनिसुव्रतेन तत्त्वनिगदनमुपवर्ण्यमानं, मिस्सिस्. सिनलेयर स्टीवन्सन् एम्. ए., एम्सि. डि., जग्मन्द- लाल् जयिनि एम्. ए. इत्यनयोः पण्डितयोरभिप्रायेण विरुध्यमान दृश्यते । तयोहि -- मिस्सिस्. सिन्क्लेयर स्टीवन्सन् एकोनावंशोयं सर्वाभिनन्द्यमहिमा तीर्थकरो मल्लिनाथः, विशश्च मुनिसुव्रतस्तादृश इति (The Heart of Jainism. p. 56) जग्मन्दलाल् जयिनि एम्. ए. चतुर्विंशतौ तीर्थक्करेषु सुप्रसिद्ध एकोनविंशो मल्लिनाथो विंशश्च मुनिसुव्रत इति eta (Table attached after page 6. Outlines of Jainism.) यदि च मुनिसुव्रतात् तत्त्वाख्यातुरुपदेशलिप्सुरस्मदर्हदासीयम- ल्लिनाथः पूर्वोक्तपण्डिताभिमतश्चाभिन्नावभबिष्यता, तदा समसमयजीवि. तावश्यम्भावेन प्राक्तनतावादो न मनागपि समगंस्यतेति विरोधोऽयं दुष्परिहर एव। अस्य रत्नस्य प्रकाशनोपयोगि परिशोधनघर्षणं बहुमान्यश्री-चिरकल्- राजसम्बन्धिी तालपत्रात्मिकां, मद्रनगरस्थ-अडयारग्रन्थशालीयां पत्रा- त्मिकां च द्वे मातृके निकषहषदावाश्रित्य साधितम् । अतस्तदुभयस्वामिभ्यां कृतज्ञतानिवेदनपुरस्सरमिदं ग्रन्थमालायामुपगुम्भ्य महद्भ्य उपहरामि । अनन्तशयनम्, १५-१२-११०६. } के. साम्बशिवशास्त्री.