पृष्ठम्:काव्यरत्नम्.pdf/२१

पुटमेतत् सुपुष्टितम्
प्रथमः सर्गः

यत् स्थापनां नाम भुवं च कालं
 द्रव्यं च भावं प्रति षट्प्रकारा ।
स्तुतिर्जिनस्य क्रियतेऽत्र तस्मात्
 काव्यं ममैतत् स्तुतिरेव भूयात् ॥ २१ ॥

अथास्ति जम्बूविटपिच्छलेन
 द्वीपेषु ग[१]र्वोन्नतमस्तकस्य ।
द्वीपस्य भर्माभरणेऽत्र खण्डे
 रत्नायमानो मगधाख्यदेशः ॥ २२ ॥

यद्भूधरा भूतलसेव्यपादा
 भूपा इवाक्रान्तदिगन्तरालाः ।
इन्दन्ति मत्तद्विपकैरवाक्षि-
 कस्तूरिकाकाञ्चनरत्नखड्गैः ॥ २३ ॥

नगेषु यस्योन्नतवंशजाताः
 सुनिर्मला विश्रुतवृत्तरू[२]पाः ।
भव्या भवन्त्याप्तगुणाभिरामा
 मुक्ताः सदा लोकशिरोविभूषाः ॥ २४ ॥

उत्तुङ्गगोत्रप्रभवा भवत्यो
 भजन्तु भूचक्रबहिष्कृतं किम् ।
इति स्रवन्तीरुदधिं सरन्ती-
 रवैमि यत्रालिगणो रुणद्धि ॥ २५ ॥

तरङ्गिणीनां तरुणान्विताना-
 मतुच्छपद्मच्छदलाञ्छितानि ।


  1. 'वर्गोन्न' क. पाठः
  2. 'देहाः ।' ख. पाठः.