पृष्ठम्:काव्यरत्नम्.pdf/२४

पुटमेतत् सुपुष्टितम्
काव्यरत्ने

पुरारिवैरप्रतिकारहेतो-
 र्या मुक्तकेशव्रतमादितेव ॥ ३७ ॥

बहिर्वणे[१] यत्र विधाय वृक्षा-
 रोहं परिष्वज्य समर्पितास्याः ।
कृताधिकारा इव कामतन्त्रे
 कुर्वन्ति सङ्गं विटपैर्व्रतत्यः ॥ ३८ ॥

आरामरामाशिरसीव केली-
 शैले लताकुन्तलभासि यत्र ।
सकुङ्कुमा निर्झरवारिधारा
 सीमन्तसिन्दूरनिभा विभाति ॥ ३९ ॥

कण्डूतिशान्त्यै निजकर्णमूलं
 सङ्घर्षयन्तः सरसीषु मीनाः ।
अम्भोजदण्डेषु विभान्ति यस्या-
 मालानद[२]ण्डोष्विव हस्तिपोताः ॥ ४० ॥

वीथ्या हयानां दशया गजानां
 श्रमैर्भटानां करणैर्नटानाम् ।
भुजाहतैर्मल्लगणस्य यस्या
 जयन्ति बाह्यालिभुवो विशालाः ॥ ४१ ॥

अहो नु तीरद्रुमराजिराज-
 द्विचित्रपुष्पोद्गमबिम्बितानि ।
उतोल्लसत्पन्नगभोगरत्न-
 द्युतीनि यस्याः परिखाजलानि ॥ ४२ ॥


  1. 'ने’
  2. 'बन्धेष्वि' क. पाठः.