पृष्ठम्:काव्यसंग्रहः.pdf/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ वृन्दावनशतकं । सा मे न माता स च मे पिता न स मेन बन्धुः स च मे सखा न । स मेन मित्र सच मे गुरु न यो मे न वृन्दावनवासमादिशेत् ॥ ३५ ॥ तच्छास्वं मम कर्णमूलमपि न स्वप्नेपि यायादहो श्रीहन्दाविपिनस्य यत्र महिमा नात्यद्भुतः श्रूयते । ते मे दृष्टिपथं न यान्तु नितरां सम्भाष्यतामाप्नुयुर् ये दृन्दावनवैभवे श्रुतिगते नोलासिनो नोखिलाः ॥३६॥ अलमलमिह योषिनर्दभीसरङ्गैर् अलमलमिह वित्तापत्यविद्यायशोभिः । अलमलमिह नानासाधनायासदुःखैः भवत भवत वृन्दारण्यमाश्रित्य धन्याः ॥ ३७॥ वैकुण्ठं कोटिकोटिप्रगुणितमपिनो यच जालेशमात्रां प्रोन्मीलत्सौभगाब्धेर्लवमपि लभते शुद्धभावोज्वलायाः । कुर्वीरन् भक्तिकोटीर्भगवति न तथाय्यद्भुतप्रेममूर्तेः श्रीराधाया अभक्तैः किमपिनकलितां नौटिन्दाटवींतां इदमपि भविता किं यत्र कुत्रापि वृन्दा पदमपि मम आतं श्रोचवीथीमकस्मात् । मधुरमधुरराधामाधवानङ्गखेला वनमुपनयदन्तर्दास्यति प्रेममू ॥ ३८ ॥ [॥१८॥ ] कदा नु वृन्दावनवीथिकास्वहं परिभ्रमन् श्यामलगौरमद्भुतं । Digized by Google