पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१०१

पुटमेतत् सुपुष्टितम्
अ. १.]
८१
कामधेनुसहिता।

औज्ज्वल्यं कान्तिः ॥ २५ ॥

 बन्धस्योज्ज्वलत्वं नाम यत् , असौ कान्तिरिति ; तदभावे पुराणच्छायेत्युच्यते ।

 यथा- 'कुरङ्गीनेत्रालीस्तबकितवनालीपरिसरः।'

 विपर्ययस्तु भूयान् सुलभश्च ।

 श्लोकाश्चात्र भवन्ति-

 पदन्यासस्य गाढत्वं वदन्त्योजः कवीश्वराः ।

 अनेनाधिष्ठिताः प्रायः शब्दाः श्रोत्ररसायनम् ॥

 श्लथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते ।

 अनेन न विना सत्यं स्वदत्ते काव्यपद्धतिः ॥

 यत्रैकपदवद्भावः पदानां भूयसामपि ।

 अनालक्षितसंधीनां स श्लेषः परमो गुणः ॥

 प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः।

 दुर्बन्धो दुर्विभावश्च समतेति मतो गुणः ॥


अव्यवहितान्वयप्रसिद्धार्थपदत्वे हि भवत्यर्थव्यक्तिः । अस्य च विपर्ययः- असाध्वप्रतीतानर्थकान्यार्थनेयार्थगूढार्थयतिभ्रष्टक्लिष्टसंदिग्धायुक्तानि । असाधुत्वे हि भवति नार्थव्यक्तिः । यत्र च भवति, तत्र 'असाधुरनुमानेन वाचक: कैश्चिदिष्यते' इत्युक्तत्वादसाधुशब्द साधुशब्दानुमानद्वारेणार्थबोधक इति नार्थव्यक्तिः । पूरणार्थमव्ययं च कस्मादस्य प्रयोग इति संदेहावहत्वादर्थव्यक्तिं व्यवदधाति । यतिभ्रंशे च अर्थव्यक्तिहतिः । एवमन्यत्रापि द्रष्टव्यम् ॥

 कान्ति कथयितुमाह-- औज्ज्वल्यमिति । पत्रमिति वक्तव्ये किसलयमित्यादि, जलधाविति वक्तव्ये अधिजलधीति, राज्ञीति वक्तव्ये राजनीति, कमलमिवेति वक्तव्ये कमलायत इत्यादिः कान्तिहेतुः । विपर्ययस्य विषयं दर्शयति- तदभाव इति । अत्र संवादं संदर्शयन् , अमून् गुणान् अन्यश्लोकैरुपश्लोकयति- पदन्यासस्येत्यादि । श्लोकाः स्पष्टार्थाः । 11