पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१०२

पुटमेतत् सुपुष्टितम्
८२
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

  आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत् ।
  समाधिर्नाम स गुणस्तेन पूता सरस्वती ॥
  बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः ।
  अनेन हि पदन्यासाः कामं धारामधुश्च्युतः॥
  बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् ।
  एतेन वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥
  विकटत्वं च बन्धस्य कथयन्ति ह्युदारताम् ।
  वैचित्र्यं न प्रपद्यन्ते यया शून्याः पदक्रमाः॥
  पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः ।
  यत्रार्थव्यक्तिहेतुत्वात्सोऽर्थव्यक्तिः स्मृतो गुणः ॥
  औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः।
  पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः ॥
  यथा विच्छिद्यते रेखा चतुरं चित्रपण्डितैः ।
  तथैव वागपि प्राज्ञैः समस्तगुणगुम्फिता ॥

नासन्तः संवेद्यत्वात् ॥ २६ ॥

 न खल्वेते गुणा असन्तः, संवेद्यत्वात्तद्विदाम् ।

 संवेद्यत्वेऽपि भ्रान्ताः स्युरित्यत आह--

न भ्रान्ता निष्कम्पत्वात् ॥ २७ ॥


 नन्वेते गुणाः स्वसंकल्पनामात्रसाराः, रूपरसादिवदपरोक्षतया अधिगन्तुमशक्यत्वादिति शङ्कामुट्टङ्कयितुमाह--- नासन्त इति । अयमर्थः-- ओजःप्रमुखा एते गुणाः, असन्तः तुच्छा न भवन्ति । कुतः? संवेद्यत्वात् । सहृदयसंवेदनस्य विषयत्वात् ।

 असर्वजनीनत्वादियं प्रतीतिर्भ्रान्तिरेव किं न ‘स्यादिति शङ्कामङ्कुरयित्वा समुन्मूलयितुमाह--- न भ्रान्ता इतिनिष्कम्पत्वात् असर्वजनीनत्वेऽप्यबाधितत्वादित्यर्थः ॥