पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१०५

पुटमेतत् सुपुष्टितम्
अ. २.]
८५
कामधेनुसहिता।

 अत्र चन्द्रपदवाच्येऽर्थे ‘नयनसमुत्थं ज्योतिरत्रेः' इति वाक्यं प्रयुक्तम् । पदसमूहश्च वाक्यमभिप्रेतम् ।

 अनया दिशा अन्यदपि द्रष्टव्यम् । तद्यथा---

  'पुरः पाण्डुच्छायं तदनु कपिलिम्ना कृतपदं
   ततः पाकोत्सेधादरुणगुणसंसर्गितवपुः।
  शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं
   वने वीतामोदं बदरमरसत्वं कलयति ॥'

 न चैवमतिप्रसङ्गः, काव्यशोभाकरत्वस्य गुणसामान्यलक्षणस्यावस्थितत्वात् ।

 वाक्यार्थे पदाभिधानं यथा-'दिव्येयं न भवति, किंतु मानुषी' इति वक्तव्ये 'निमिषति' इत्याहेति ।


पदार्थ इति । लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति-चन्द्रपदेति । 'तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता' इत्युक्तलक्षणं वाक्यं न विवक्षितम् , किंतु पदसमुदायमात्रमभिमतमित्याह-- पदसमूहश्चेति

 अयं न्यायोऽन्यत्रापि संचारणीय इत्याह- अनयेति । अन्यदपि दर्शयति-पुरः पाण्डुच्छायमिति । स्थपुटो निम्नोन्नतः । विष्कम्भ आभोगः। अत्र कपिलमिति वक्तव्ये ‘कपिलिम्ना कृतपदम्' इति, शुष्कमिति वक्तव्ये 'शनैः शोषारम्भे' इत्यादि च वाक्यं प्रयुक्तमिति पदार्थे वाक्यरचना । 'दक्षात्मजादयितवल्लभवेदिकासु' इत्यादावतिप्रसङ्गं परिहरति- न चैवमिति । तत्र हेतुः- काव्यशोभाकरत्वस्येति । तत्र गुणसामान्यलक्षणाभावान्नातिप्रसङ्ग इत्यर्थः ।

 द्वितीयां प्रौढिं द्रढयति--- वाक्यार्थ इति । किमियं देव्युत मानुषीति पृष्टः कश्चिदुत्तरमाह-निमिषतीति । अनेन मानुषधर्मवाचिना पदेन- देवीयं न भवति, किं तर्हि, मानुषी-- इति वाक्यार्थः प्रतिपादितो भवति ।

 पदार्थे वाक्यम् , वाक्यार्थे पदमिति प्रौढेर्भेदाभ्यां व्याससमासौ पुनरुक्तौ ख्यातामिति न शङ्कनीयम् । तत्र हि पदार्थो वाक्यार्थताम् , वाक्यार्थश्च पदार्थतां