पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१०९

पुटमेतत् सुपुष्टितम्
अ. २.]
८९
कामधेनुसहिता।

 ऋतुसंधिप्रतिपादनपरेऽत्र द्वितीये पादे प्रक्रमभेदः, मलयमरुतामसाधारणत्वात् । एवं द्वितीयः पादः पठितव्यः- 'मनसि च गिरं बध्नन्तीमे किरन्ति न कोकिलाः' इति । सुगमत्वं वा अवैषम्यमिति ।

यथा---

  'का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।

  मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥'

 प्रत्युदाहरणं सुलभम् ।

अर्थदृष्टिः समाधिः ॥ ६॥

 अर्थस्य दर्शनं दृष्टिः । समाधिकारणत्वात् समाधिः। अवहितं हि चित्तमर्थान् पश्यतीत्युक्तं पुरस्तात् ।


इति । अत्र प्रक्रमभेदं प्रतिपादयति-- ऋतुसंधीति । ऋत्वोः शिशिरवसन्तयोः संधिः । असाधारणत्वात्- वसन्तैकधर्मत्वादित्यर्थः । इदमेवोदाहरणयितुं पाठान्तरं प्रकल्पयति- एवं द्वितीय इति । 'मनसि च गिरं बघ्नन्तीमे किरन्ति न कोकिलाः' इति पाठे प्रक्रमाभेदः स्फुटः। विवेकिनोऽत्र शिष्या इति कथमवैषम्यं प्रक्रमाभेद इति तत्रारुच्या पक्षान्तरमुपक्षिपति--- सुगमत्वं वेति । उदाहरति-का स्विदिति । अत्र सुगमत्वं सुगमम् । प्रत्युदाहरणं सुलभमिति । अस्य विपर्ययः क्रमादपक्रमं क्लिष्टत्वं च । तदुभयमपि पूर्वमुदाहृतं द्रष्टव्यम् ।

 समाधिं संप्रधारयितुमाह--- अर्थदृष्टिरिति । ननु समाधिरवधानम् , दर्शनं तु ज्ञानविशेषः । कथमुभयोः सामानाधिकरण्यमित्यत आह-- समाधिकारणत्वादिति । समाधिः कारणं यस्येति बहुव्रीहिः। कार्यकारणयोरुभयोरभेदमुपचर्योक्तमित्यर्थः । कार्यकारणभावमेव ज्ञापयति-- अवहितं हीति । 'चित्तैकाग्र्यमवधानम्' इति सूत्रे प्रागुक्तमित्यर्थः । 'सद्यःकृत्तद्विरदरदनच्छेदगौरैः' इत्यादौ यथा च्छेदश्छिद्यमाने दन्तादौ पर्यवस्यति, तथा दर्शनमत्र दृश्यमानेऽर्थे पर्यवस्यतीति भवत्ययमर्थगुणः ॥ 12