सुप्तिङ्संस्कारसारं यत् क्लिष्टवस्तुगुणं भवेत् ।
काव्यं वृन्ताकपाकं स्याज्जुगुप्सन्ते जनास्ततः ॥
गुणानां दशता त्यक्तो यस्यार्थस्तदपार्थकम् ।
दाडिमानि दशेत्यादि न विचारक्षमं वचः ॥ इति ।
इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे द्वितीयोऽध्यायः॥
समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम् ॥
कल्यं च यत् , स चायं काव्यपाकः । सुप्तिङां संस्कारो यथाशास्त्रं प्रकृतिषु प्रत्यययोजनमेव सारः स्थिरांशो यस्य । क्लिष्टा अस्फुटा वस्तुनोऽर्थस्य गुणाः यस्य । अनेन स्फुटगुणव्यावृत्तिः सूचिता । वृन्ताकस्य पाक इव पाको यस्य । तत् काव्यम् । ततो जना जुगुप्सन्ते, किमुत कवय इति भावः । गुणानामिति । दशता दशसंख्यापरिमितेन वर्गेणेत्यर्थः । गुणदशकेन त्यक्त इत्यर्थः । ‘पञ्चद्दशतौ वर्गे वा' इति निपातितो दशच्छब्दः । अपार्थकं वाक्यमुदाहरति-दाडिमानीति । 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः' इति वाक्यं विचारयोग्यं न भवति । अतोऽलंकारशास्त्राद्दोषगुणस्वरूपं विज्ञाय कविर्दोषाञ्जह्यात् , गुणानाददीतेत्युपदेशः ॥
इति कृतरचनायांमिन्दुवंशोद्वहेन
त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
ललितवचसि काव्यालंक्रियाकामधेना-
वधिकरणमयासीत्पूर्तिमेतत्तृतीयम् ॥
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति-
व्याख्यायां काव्यालंकारकामधेनौ गुणविवेचनं नाम
तृतीयमधिकरणम् ॥