पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१२७

पुटमेतत् सुपुष्टितम्
[अधि. १.
१०७
कामधेनुसहिता।

 अत्र श्लोकाः-

  अखण्डवर्णविन्यासचलनं श्रृङ्खलामला ।
  अनेन खलु भङ्गेन यमकानां विचित्रता ।

  यदन्यसङ्गमुत्सृज्य नेपथ्यमिव नर्तकः।
  शब्दः स्वरूपमारोहेत्स ज्ञेयः परिवर्तकः ॥

  पिण्डाक्षरस्य भेदेन पूर्वापरपदाश्रयात् ।
  वर्णयोः पदलोपो यः स भङ्गश्चूर्णसंज्ञकः॥

  अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि ।
  अलकानीव नात्यर्थं यमकानि चकासति ।

  विभक्तिपरिणामेन यत्र भङ्गः क्वचिद्भवेत् ।
  न तदिच्छन्ति यमकं यमकोत्कर्षकोविदाः ॥

  आरूढं भूयसा यत्तु पदं यमकभूमिकाम् ।
  दुष्येच्चेन्न पुनस्तस्य युक्तानुप्रासकल्पना ॥

  विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च ।
  आवृत्तिः सुप्तिङन्तानां मिथश्च यमकाद्भुतम् ॥


 प्रतिपादितेऽर्थे परसंवादं प्रकटयति- अत्र श्लोका इति । पद्यत्रयं स्पष्टार्थम् । भङ्गादुत्कर्ष इत्युपक्रम्य भङ्गमार्गेषु प्रकर्षं प्रतिपाद्य अन्यत्रापकर्षमवगमयितुमाह--- अप्राप्तेति । अप्राप्तचूर्णभङ्गानीति विशेषणमलकेष्वपि योजनीयम् , विभक्तीति । विभक्तीनां परिणामो विपरिणामः, अन्यथाभाव इति यावत् । उदाहरणं तु 'शिवमात्मनि सत्त्वस्थान् पश्यतः पश्यतः शिवौ' इत्यादि द्रष्टव्यम् । आरूढमिति । यत्पदं भूयसा भूम्ना, यमकभूमिकां यमकवदवभासमानत्वम् , आरूढम्., तत् दुष्येत् दुष्टं भवेत् । ननु न चेत्तद्यमकम् , तर्ह्यनुप्रासोऽस्त्विति शङ्कां शकलीकरोति-- न पुनरिति । यथा दण्डिनोक्तम् , 'कालकाल गलकाल कालमुख-' इत्यादि । विभक्तीनामिति । प्रथमादीनां विभक्तीनां विभक्तत्वं विविधत्वम् , एकवचनादिलक्षणायाः संख्यायाः कर्तृकर्मादेः