पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
xiii

निर्वाहको नूनमुपमालंकार एवेति ननु जानाति यथाजातोऽपि । सोपमानमभि- हितोऽर्थः स्फुटं मनसि संक्रामतीति को नु खल्बनुन्मत्तो नाभ्युपैप्यति ? यथा चोपमायाः, तथा तदुपजीविनामपि परेषां भवति तदिदं फलमलंकाराणामिति न खलु दुरवगाहोऽयमर्थः सहृदयानाम् । इत एव च, मन्यामहे, कारणादागतं स्यादन्यतः प्राधान्यमुपमाया इति । अत एव चादिकाव्ये श्रीमति रामायणे भगवान्वाल्मीकिः, तदुपजीवनेन कृतार्थ परिपूतं चात्मानमभिमन्यमानो महाकविः कालिदासश्च सर्वेष्वपि स्वकीयेषु प्रबन्धरत्नेषु भूयसा उपमां तत्संनिकृष्टांश्च अलंकारान् लेशेन च तदितरान्प्रयुक्ते । परिशील्यन्तां कालिदासीयानि गद्यानि पद्यानि च । कति नाम तत्र उपमास्तदुपजीविनश्च विद्यन्ते अलंकारा इति पर्यालोच्यताम् । शते पञ्चसप्तत्यधिकानि किल वाङ्मयान्येवमुपारूढकान्तीनि प्रकाशन्ते । को हि नाम महामना अलंकारतत्त्वमुपमावैभवं च जानानो विहायैतां रीतिमन्यामेव कांचिज्जातुचिदाद्रियेत । 'उपमा कालिदासस्य' इति प्रथापि निपुणं निरूप्यमाणे, विश्वसिमः, इत एवं जगति सर्वतः समुपारूढा । एतदेव च सर्वात्मना संदर्शयितुं महाकविरयम् ‘वागर्थाविव संपृक्तौ' इति प्रथमपद्ये प्रथमत एव उपमाशिरस्कमात्मनः साहित्यशिल्पमनल्पमाविश्चक्रे । शब्दे उच्चारिते अर्थप्रतीतिः संभवति विना विलम्बमिति प्रतिकलमनुभवेन जानतां शब्दार्थसंबन्धस्य नित्यत्वमजानतामपि बालानां स्वानुभवसाक्षिक एव शब्दार्थयोः परस्परमतिनिबिडः संबन्ध इति काव्यारम्भ एव साधीयसीमिमामुपमामुपनिबध्नतो महाकवेरस्य मतिमहिमानं कथं वयं वर्णयितुं प्रभवामः । एतदेव किल महाकवेरन्यविलक्षणं लक्षणम् , यदत्र विचारेण शब्दार्थ- संबन्धनित्यत्वमवगच्छतां पण्डितानामिव अनुभवेन शब्दार्थयोर्निबिडं कमपि संबन्धमूहमानानां बालानामप्यनुग्रहाय तदुभयसाधारण्येनोपमायाः समुपनिबन्धो नाम । एतत्सर्वमालोच्यैव भरतेनापि 'उपमा रूपकं चैव दीपकं यमकं तथा । काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्तिताः' इत्यर्थालंकारास्त्रय एव स्वीकृताः । वामनश्चात्र आदित उपमा तदोषांश्च निरूप्य अनन्तरम् 'प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः' इति प्रतिज्ञाय प्रतिवस्तुप्रभृतीन् शुद्धान्.सप्तविंशतिमलंकारान् लक्षणतो लक्ष्यतश्च निरूपयति । परस्ताच्च · अलंकारस्यालंकारान्तरयोनित्वं संसृष्टिः' इति लक्षयित्वा तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ' इति द्वावाह । अर्वाचीनास्तु अलं- 6