पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१३२

पुटमेतत् सुपुष्टितम्
११२
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

मानं च लोकप्रसिद्धम् , तदेव परिगृह्यते नेतरत् । न हि यथा मुखं कमलमिव इति, तथा कुमुदमिव इत्यपि भवति ॥

गुणबाहुल्यतश्च कल्पिता ॥२॥

 गुणानां बाहुल्यं गुणबाहुल्यम् , तत उपमानोपमेययोः साम्यात् कल्पितोपमा कविभिः कल्पितत्वात् कल्पिता । पूर्वा तु लौकिकी । ननु कल्पिताया लोकप्रसिद्ध्यभावात् कथमुपमानोपमेयनियमः? गुणबाहुल्यस्योत्कर्षापकर्षकल्पनाभ्याम् ।

  तद्यथा-

  'उद्गर्भहूणतरुणीरमणोपमर्द-
   भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
  बिम्बं कठोरविसकाण्डकडारगौरै-
   र्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥'


तत् उभयग्रहणं कृतम् । किमर्थम् ? लोकपसिद्धस्योपमानस्य परिग्रहार्थम् । न ह्यत्र व्युत्पत्तिबलादागतमुपमानं विवक्षितम् , किंतु लोकप्रसिद्धमेवेत्यवगमयितुमुभयग्रहणं कृतमित्यर्थः । तत्प्रसिद्ध्यप्रसिद्धी दर्शयति- यथेति । यथा मुखं पद्ममिवेत्यत्र पद्मं मुखोपमानत्वेन प्रसिद्धम् , न तथा कुमुदमिवेत्यपि भवति प्रसिद्धमिति भावः ।

 लौकिकी कल्पिता चेत्युपमा द्विविधा ; तत्र कल्पितोपमा प्रकटयितुमाह गुणबाहुल्यत इति । उपमायाः कल्पितत्वव्यपदेशे कारणमाह--- कविभिरिति । या पुनरुपमा गुणलेशतः साम्यलक्षणा सा लौकिकी प्रागुक्तैवेत्याह पूर्वा तु लौकिकीति । प्रसिद्ध्यभावात् कल्पितायामिदमुपमानमिदमुपमेयमिति व्यवस्था न घटत इति शङ्कते--- नन्विति । इह खलूपमानोपमेययोर्मुखचन्द्रयोर्गुणोत्कर्षापकर्षौ व्यवस्थापकौ । तत्तत्कल्पनया कल्पितायामुपमानोपमेयनियमो घटते । अतो न लोकविरोध इति परिहरति--- गुणबाहुल्यस्येति । उदाहरति--- तद्यथेति । उद्गर्भा व्यक्तगर्भा या हूणाख्यजनपदतरुणी तस्या रमणेन भर्त्रा उपमर्दो गाढालिङ्गनं तेन भुग्नः स चासावुन्नतः स्तनश्च भुग्नोन्नतस्तनः तस्य