पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१३३

पुटमेतत् सुपुष्टितम्
[अधि. २.
११३
कामधेनुसहिता।

 'सद्योमुण्डितमत्तहूणचिबुकास्पर्धि नारङ्गकम् ।'

 'अभिनवकुशसूचिस्पर्धि कर्णे शिरीषम् ।'

  'इदानीं प्लक्षाणां जरठदलविश्लेषचतुर-
   स्तिभीनामाबद्धस्फुरितशुकचञ्चूपुटनिभम् ।
  ततः स्त्रीणां हन्त क्षममधरकान्तिं तुलयितुं ।
   समन्तान्निर्याति स्फुटसुभगरागं किसलयम् ॥'

तद्द्वैविध्यं पदवाक्यार्थवृत्तिभेदात् ॥ ३ ॥

 तस्या उपमाया द्वैविध्यम् , पदवाक्यार्थवृत्तिभेदात् । एका पदार्थवृत्तिः, अन्या वाक्यार्थवृत्तिरिति ।

 पदार्थवृत्तिर्यथा-

  'हरिततनुषु बभ्रुत्वग्विमुक्तासु यासां
  कनककणसधर्मा मान्मथो रोमभेदः।'


निवेशः संनिवेशो मण्डलाकार इति यावत् तन्निभम् । हिमांशोर्बिम्बम् । कठोरबिसकाण्डा इव कडारगौराः कपिशावदातास्तैः । अप्रकरैः, प्रथममग्रे, विष्णोः पदमाकाशं व्यनक्ति । विषयव्याप्त्यर्थमुदाहरणान्तराण्याह---- सद्य इति । मुण्डितेन वापितेन मत्तस्य हूणजनपदपुरुषस्य चिबुकेन प्रस्पर्धितुं शीलमस्यास्तीति तत्संनिभं भवति नारङ्गकमिति । इदानीमिति । जरठदलानां जीर्णपर्णानां विश्लेषेण चतुरा मनोज्ञाः स्तिभयोऽङ्कुरा येषाम् । 'स्तिभिश्च स्तिभितः शुङ्गोऽप्यङ्कूरोऽङ्कुर एव च' इति हलायुधः। तेषां प्लक्षाणां किसलयम् । आबद्धो घटितः स्फुरित ईषद्विवृतः शुकस्य यश्चञ्चूपुटस्तत्संनिभं भवति । ततोऽनन्तरम् । स्फुटसुभगरागं व्यक्तमनोज्ञारुण्यम् , स्त्रीणामधरकान्तिं तुलयितुं क्षमं योग्यं सत् , निर्याति ।

 उपमाविभागमुदीरयितुमाह-तद्द्वैविध्यमिति । व्याचष्टे-तस्या इति। पदार्थवृत्तिमुपमां प्रतिपादयति-पदार्थेति । हरिततनुष्विति । कनककणस-

15