वाक्यार्थवृत्तिर्यथा-
'पाण्ड्योऽयमंसार्पितलम्बहारः
क्लृप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः ।
सनिर्झरोद्गार इवाद्रिराजः॥'
सा पूर्णा लुप्ता च ॥ ४ ॥
सा उपमा पूर्णा लुप्ता च भवति ।
गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा ॥ ५॥
गुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा ।
यथा- 'कमलमिव मुखं मनोज्ञमेतत्' इति ।
लोपे लुप्ता ॥ ६॥
गुणादिशब्दानां लोपे वैकल्ये लुप्ता ।
धर्मेत्यत्र पदार्थवृत्तिरुपमा । वाक्यार्थवृत्तिमुपमामुदाहरति-- पाण्ड्योऽयमिति ।
पुनर्भेदं प्रादुर्भावयितुमाह -- सा पूर्णा लुप्ता चेति ।
पूर्णां वर्णयितुमाह-- गुणद्योतकेति । व्याचष्टे-~~ गुणादीति । उपमानोपमेयसमानधर्मसादृश्यप्रतिपादकानामन्यूनत्वेन प्रयोगे पूर्णा । कमलमिवेति । अत्र कमलमुपमानम् , मुखमुपमेयम् , इवशब्दः सादृश्यद्योतकः, मनोज्ञशब्दः समानधर्मवचनः । एतेषामन्यूनतया प्रयोगादियमुपमा पूर्णा ।
लुप्तां लक्षयति--- लोप इति । गुणादिशब्दानामिति । उपमानोपमेयगुणसादृश्यप्रतिपादकानां मध्ये एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । शशीव राजेत्यत्र साधारणधर्मस्याप्रयोगादेकस्य लोपः । दूर्वाश्यामेत्यत्रोदाहरणे सादृश्यद्योतकस्याप्रयोगादेकस्य लोपः । श्यामाशब्देनैव धर्मधर्मिणोरुक्तत्वात् । 'दूर्वा-