पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१४६

पुटमेतत् सुपुष्टितम्
१२६
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 वाक्यर्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह--

उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ॥ २ ॥

 समानं वस्तु वाक्यार्थः, तस्य न्यासः समानवस्तुन्यासः ; उपमेयस्य अर्थाद्वाक्यार्थस्योक्तौ सत्यामिति । अत्र द्वौ वाक्यार्थौ ; एको वाक्यार्थोपमायामिति भेदः ॥

 तद्यथा-

  ‘देवीभावं गमिता परिवारपदं कथं भजत्येषा ।
  न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥

 प्रतिवस्तुनः समासोक्तेर्भेदं दर्शयितुमाह---

अनुक्तौ समासोक्तिः ॥ ३ ॥

 उपमेयस्य अनुक्तौ समानवस्तुन्यासः समासोक्तिः । संक्षेपवचनात् समासोक्तिरित्याख्या ॥

 यथा--

  ‘श्लाघ्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः ।
  धिङ्मेरौ कल्पवृक्षाणामव्युत्पन्नार्थिनां श्रियः ॥


र्थेति । सूत्रार्थं विवृणोति-- समानं वस्त्विति । किमिदं समानं वस्तु पदार्थरूपम् , उत वाक्यार्थरूपमिति विशयो मा भूदित्याह- वाक्यार्थ इति । समानवस्तुन उपमानस्य वाक्यार्थत्वाभ्युपगमबलादुपमेयस्यापि वाक्यार्थत्वसिद्धिरित्याह---- उपमेयस्येति ।'Bold text' उपमेयस्य वाक्येन प्रतिपादने उपमानस्यापि वाक्यान्तरेण प्रतिपादनं प्रतिवस्त्विति लक्षणार्थः; अत एव वाक्यार्थोपमायाः प्रतिवस्तुनो भेद इत्याह-- अत्रेति । देवीभावमिति । अत्र पूर्वोत्तरवाक्याभ्यां वस्तुप्रतिवस्तुनोः प्रतिपादनात् प्रतिवस्त्वलंकारः ॥

 समासोक्तिं वक्तुमाह- प्रतिवस्तुन इति । लक्षणवाक्यार्थं विवृणोति-- उपमेयस्येति । समानवस्तुन उपमानस्य न्यासः वाक्येनोपपादनमित्यर्थः । समासोक्तिरिति संज्ञान्वर्थेत्याह--- संक्षेपेति । उदाहरति-- श्लाघ्येति । करीरो