पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
xv

प्रकरणे च प्रायेण वैयाकरणैः समर्थितान् शब्दान् तथैव समर्थयति । अगत्या च तत्र तत्र चिन्दतामप्याविर्भावयति । धातुपाठादिविषये च क्वचिक्वचिदाधुनिक- वैयाकरणग्रन्थमताभ्यामस्ति दृश्यते वामनस्य विरोधः । आनुनामिक्यप्रतिज्ञान्या- येन संप्रदायागतांस्तांस्तान्विशेषानतिदृढं विश्वसन्तो वयं न खल्वत्र किमपि कारणमात्मना जानीमः । प्रायोगिकाधिकरणद्वितीयाध्यायस्य वैयाकरणकृत्यत्वमाकलयन्तः प्रत्यवस्थातारः, काव्यशरीरशब्दशोधनमपि नालंकारिकस्य नानुगुणमिति परं निवेदनीया भवन्ति ।

 अथास्य वामनस्य जीवितसमयं विमृशामः । अत्र केचित्---- " अयं ख्रिस्तीयसप्तमशतकोत्तरार्धान्न प्राचीनः; यतोऽयं भवभूतिप्रणीतोत्तररामचरिता- दिश्लोकानुदाहृतवान् । भवभूतिः ख्रिस्तीयसप्तमशतकोत्तरार्धे कान्यकुब्जमही- पालस्य यशोवर्मणः सभायामासीदिति सुप्रसिद्धमेव । अथ च ध्वन्यालोकलोचने प्रथमोद्रयोते 'वामनाभिप्राणायमाक्षेपः । भामाहाभिप्रायेण तु समासोक्तिरित्य- मुमाशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोरेकमेबोदाहरणं व्यतरद्ग्रन्थकृत्' इति वदन्तः श्रीमदाचार्याभिनवगुप्तपादा ध्वन्यालोककर्तुः श्रीमदानन्दवर्धनाद्वामनस्य प्राचीनत्वं प्रकटयन्ति । कश्मीरेषु अवन्तिवर्मराज्यसमये नवमशतकोत्तरार्धे श्री- मदानन्दवर्धन आसीदिति राजतरङ्गिण्याः प्रतीयते । तस्मात् ख्रिस्ताब्दीयनवमश- तकोत्तरार्धानाधस्तनो वामनः । भाति चायं काश्मीरकः । अष्टमशतके कश्मीरमही- पतेर्विपश्चिद्वरस्य श्रीजयापीडस्य मन्त्री कश्चन वामनाभिध आसीत् । 'मनोरथं शङ्खदत्तश्चटकः संधिमांस्तथा । बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः' इति राजतरङ्गिणी । स एवायं काव्यालंकारसूत्रप्रणेतेत्यपि केचन काश्मीरका वदन्ति । काशिकावृत्तिकारो वामनस्त्वस्माद्भिन्नः प्राचीनश्च । चीनदेशात्तीर्थयात्रार्थ भारतवर्षे सप्तमशतकपूर्वार्धे कश्चन ह्यून्सङ्गनामा पुरुषः समागतः । तदात्र वामन- प्रणीतायाः पाणिनिसूत्रव्याख्यायाः (काशिकायाः) पठनपाठनेषु प्रचार आसी- दिति हि तदीययात्रावर्णनपुस्तकात्पाश्चात्त्यैः पण्डितैरधिगतम्” इति विलिखन्ति ।

 परे त्वत्र प्रत्यवतिष्ठन्ते---- चीनयात्रिकेण खलु तदा काशिकायाः प्रचार आसीदित्येव विलिखितम् ; न तु संपूर्णाया इति, न वा वामनप्रणीताया इति । तच्च तदीयं वचनं जयादित्यकृतं भागमादायैव कुतो नात्मलाभमधि-