पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१५०

पुटमेतत् सुपुष्टितम्
१३०
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

  उद्वृत्ता गुरवश्च यस्य वशिनः श्यामायमानानना
   योधा मारवधूस्तनाश्च न ददुः क्षोभं स वोऽव्याज्जिनः ॥'

 यथा च गौणस्यार्थस्यालंकारत्वम् , तथा लाक्षणिकस्यापीति दर्शयितुमाह--

सादृश्याल्लक्षणा वक्रोक्तिः ॥ ८॥

 बहूनि हि निबन्धनानि लक्षणायाम्; तत्र सादृश्याल्लक्षणा वक्रोक्तिरिति ।

 यथा-'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात् ।'

इति लक्षणार्थः । आकृष्टेति । आकृष्टे कोशादुद्धृते मण्डलाग्रे खड्गे रुचिः प्रीतिर्येषाम् । आकृष्टा आहृता स्वीकृतेति यावत् , मण्डलस्य बिम्बस्य अग्रे उपरिभागे रुचिः कान्तिर्यैः । संनद्धं कवचितं परिणद्धं च वक्षःस्थलं येषाम् । ऊष्मणा दर्पेण उष्णगुणेन च सह वर्तन्त इति सोष्माणः । व्रणाः शस्त्रक्षतानि नखक्षतानि च एषां सन्तीति व्रणिनः । विपक्षाणां शत्रूणां सपत्नीनां च हृदयं वक्षश्चेतश्च प्रकर्षेण उन्मथ्नन्तीति तथोक्ताः । कर्कशाः क्रूराः कठिनाश्च । उद्वृत्ताः उद्धता उन्नताश्च । गुरवो महान्तः स्थूलाश्च । श्यामायमानानि अङ्कुरितश्मश्रुतया कचासङ्गेन वा, स्वभावेन च श्यामलायमानानि आननानि मुखानि चूचुकानि च येषां ते तथोक्ताः । वशिनो यस्येति संबन्धः । अत्र यथासंभवं गुणक्रिया द्रष्टव्याः । यद्यपि समुच्चयोऽत्र स्फुरति, तथापि साधारणविशेषणमहिम्ना आरोपः प्रतिपाद्यत इति श्लेषः ।

 वक्रोक्तिं वक्तुं संगतिमुल्लिङ्गयति--- यथा चेति । यथा मुखचन्द्रादौ गुणयोगादागतस्य गौणार्थस्य रूपकाद्यलंकारता, तथा लक्षणातः प्रतिपन्नस्य लाक्षणिकार्थस्य वक्रोक्त्यलंकारता भवतीति लक्षणार्थः । बहूनीति । 'अभिधेयेन संबन्धात्सादृश्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता' इति लक्षणाया निमित्तानि द्रष्टव्यानि । द्विरेफशब्दस्याभिधेयो भ्रमरशब्द इति तेन स्वाभिधेयसंबन्धात् भृङ्गरूपार्थो लक्ष्यते । सिंहो माणवकः, गङ्गायां घोषः, बृहस्पतिरयं मूर्खः, महति समरे शत्रुघ्नस्त्वम् , इति यथाक्रम मुदाहरणानि द्रष्टव्यानि । उन्मिमीलेति । कमलं विचकास कैरवं संचु-