त्वं तुङ्गस्तनभारमन्थरगतिर्गात्रेषु मे वेपथु-
स्त्वन्मध्ये तनुता ममादृतिरहो प्रेम्णो विचित्रा गतिः ॥'
यथा वा-
'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥'
विरोधाद्विभावनाया भेदं दर्शयितुमाह-
क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्ति-
र्विभावना ॥ १३ ॥
क्रियायाः प्रतिषेधे तत्या. एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्तिर्विभावना।
यथा-
'अप्यसज्जनसांगत्ये न वसत्येव वैकृतम् ।
अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ॥'
विरोधप्रसङ्गेनानन्वयं दर्शयितुमाह---
एकस्योपमेयत्वोपमानत्वेऽनन्वयः ॥ १४ ॥
कर्मसाधनः पेयद्रव्यमाह । पानादीनां च वैयधिकरण्याद्विरोधः । मदादीनामर्थान्तरत्वस्वीकारेण विरोधपरिहारः । सा बालेत्यादावपि विरुद्धाभासत्वं द्रष्टव्यम् ।
विभावनां विवरीतुमवतारिकामारचयति-विरोधादिति । लक्षणवाक्यार्थं विवृणोति--- क्रियाया इति । क्रियायाः कारणरूपायाः प्रतिषेधे प्रसिद्धस्य तस्याः क्रियायाः फलस्य कार्यभूतस्य व्यक्तिः प्रकाशनं यत् , सा विभावनेति वाक्यार्थः । विरोधविशेषो विभावनेति भेदः । अप्यसज्जनेति । विकृतमेव वैकृतम् । प्रज्ञादित्वात् स्वार्थेऽण् । अक्षालितविशुद्धेष्वित्यत्र कारणरूपक्षालनक्रियाप्रतिषेधेऽपि तत्फलभूताया विशुद्धेः प्रकाशनात् विभावना ।