व्याजस्य च्छद्मनः सत्येन सारूप्यं व्याजोक्तिः; यां मायोक्तिरित्याहुः।
यथा--
'शरच्चन्द्रांशुगौरेण वाताविद्धेन भामिनि ।
काशपुष्पलवेनेदं साश्रुपातं मुखं कृतम् ॥'
व्याजस्तुतेः पृथक् तुल्ययोगितेत्याह--
विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ॥ २६ ॥
विशिष्टेन न्यूनस्य साम्यार्थमेककालायां क्रियायां योगः तुल्ययोगिता।
यथा--
'जलनिधिरशनामिमां धरित्रीं वहति भुजङ्गविभुर्भवद्भुजश्च ।'
उपमानाक्षेपश्चाक्षेपः ॥ २७ ॥
स्येति । असत्यस्येत्यर्थः । सत्येन यथार्थेन । सारूप्यं सत्यत्वकल्पनया समुन्मिषितं सादृश्यम् । असत्यस्य सत्यत्ववचनं व्याजोक्तिरिति लक्षणार्थः । व्याजोक्तिमिमां मतान्तरे संज्ञान्तरेण व्यवहरन्ति, न तु स्वरूपभेद इत्याह-यामिति । उदाहरति- शरदिति । चन्द्रांशुगौरेणेत्यनेन चन्द्रिकायां काशपुष्पलवस्याविवेचनीयता सूचिता । वाताविद्धेनेत्यनेन अप्रसक्तिशङ्का निराकृता । अत्र सत्येन सात्त्विकभावेन कृतोऽश्रुपातः पुष्पलवेन कृत इत्यसत्यस्य सत्यतोक्तिः । अत एव व्याजस्तुतितो भेदः।
तुल्ययोगितां वक्तुमाह-व्याजोक्तेः पृथगिति । विशिष्टेन गुणाधिकेनोपमानेनेति यावत् । अर्थादत्र न्यूनस्येत्यनेनोपमेयस्येत्यवगम्यते । एकः कालो यस्याः सा एककाला तस्यां क्रियायां साम्यार्थं यो योगः, सा तुल्ययोगिता । उदाहरति~जलनिधीति ।
आक्षेपं लक्षयितुं सूत्रमुपक्षिपति-उपमानेति। उपमानस्य तादृशि उपमेये