पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१६४

पुटमेतत् सुपुष्टितम्
१४४
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

 उपमानस्य आक्षेपः प्रतिषेध उपमानाक्षेपः; तुल्यकार्यार्थस्य नैरर्थक्यविवक्षायाम् आक्षेपः।

 यथा-

  'तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना
   सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः ।
  किं वा कोमलकान्तिभिः किसलयैः सत्येव बिम्बाधरे
   हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥'

 उपमानस्य आक्षेपः आक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः ।

 यथा--

  'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्द्रधानार्द्रनखक्षताभम् ।
  प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेस्भ्यधिकं चकार ॥'

 अत्र शरद्वेश्येव, इन्दु नायकमिव, रवेः प्रतिनायकस्येवेत्युपमानानि गम्यन्त इति ॥

 तुल्ययोगितायाः सहोक्तेर्भेदमाह---

वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ॥ २८॥

 वस्तुद्वयस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्दसामर्थ्यात् सहोक्तिः।


सति नैरर्थक्यविवक्षायां प्रतिषेध आक्षेप इति वाक्यार्थः । तस्याश्चेन्मुखमित्युदाहरणम् । चकारेण समुच्चितमर्थमाह - उपमानस्याक्षेप इति । आक्षेपोऽनाकर्षणम् । ऐन्द्रं धनुरित्युदाहरणम् । अत्राक्षेपलभ्यं प्रकटयति-अत्र शरदिति ।

 सहोक्तिं वक्तुमाह- तुल्ययोगिताया इति । वस्तुद्वयसंबन्धिन्योः क्रिययोः सहार्थानां सहशब्दपर्यायाणां ग्रहणसामर्थ्यादेकेन पदेनाभिधानं सहोक्तिः ।