पसर्जनां प्राप्तिमाहेति । अत्र पूर्वस्मिन् पक्षे गत्यर्थत्वाल्लभेर्णिचि अणौ यः कर्ता, तस्य गत्यादिसूत्रेण कर्मसंज्ञा ।
यथा- 'दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शिशिराः शशिभासः।'
द्वितीये तु पक्षे गत्यर्थत्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा ।
यथा-
'सितं सितिना सुतरां मुनेर्वपु-
र्विसारिभिः सौधमिवाथ लम्भयन् ।
द्विजावलिव्याजनिशाकरांशुभिः
शुचिस्मितां वाचमवोचदच्युतः ॥'
तेमेशब्दौ निपातेषु ॥९॥
त्वया मयेत्यस्मिन्नर्थे ते-मे-शब्दौ निपातेषु द्रष्टव्यौ ।
यथा--'श्रुतं ते वचनं तस्य' 'वेदानधीत इति नाधिगतं पुरा मे।'
तिरस्कृत इति परिभूतेऽन्तर्युपचारात् ॥ १०॥
सर्जनां गतिमाह, सोऽयं लभिरस्ति; यश्च गत्युपसर्जनां प्राप्तिमाह अयमपि लभिरस्तीति योजना । विवक्षावशात् लभिरयं कदाचित् प्राधान्येन गतिमाह, कदाचित्तु प्राप्तिमित्यर्थः । तत्र प्रथमे पक्षे निर्विवादमणिकर्तुर्णिचि कर्मत्वमित्याह- अत्र पूर्वस्मिन्निति । द्वितीये तु गत्यर्थत्वाभावान्नास्त्यणिकर्तुः कर्मसंज्ञेत्याह-- द्वितीये त्विति। ततश्च सितिम्नेत्यत्र ‘कर्तृकरणायोस्तृतीया' इति प्रयोज्ये कर्तरि तृतीया ।
तेमे इत्यादि । अत्र 'तेमयावेकवचनस्य' इति युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोस्तेमयावादिष्टौ इति विभक्त्यन्तरस्थयोस्तयोरादेशाप्राप्तौ निपातेषु पाठात् तत्रापि प्रयोगसिद्धिरित्याह- तेमेशब्दाविति ।
{{gap}}तिरस्कृत इति । तिरस्कृतशब्दस्य परिभूतार्थे प्रयोगं दर्शयन् , तस्यानु-