पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१८२

पुटमेतत् सुपुष्टितम्
१६२
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 ‘मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधाम्' इत्यादिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात् । 'श्रितादिषु गमिगाम्यादीनामुपसंख्यानम् ' इति द्वितीयासमासलक्षणं दर्शयति ।

त्रिवलीशब्दः सिद्धः संज्ञा चेत् ॥ १३ ॥

 त्रिवलीशब्दः सिद्धो यदि संज्ञा, 'दिक्संख्ये संज्ञायाम्' इति संज्ञायामेव समासविधानात् ।

बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ॥१४॥

न्तेन योगे षष्ठीनिषेधात् । तत् कथमत्र समास इति चिन्तायां समासस्य गतिमाह- गमिगाम्यादिष्विति

 त्रिवलीशब्द इति । 'कोणस्त्रिवल्येव कुचावलाबूस्तस्यास्तु दण्डस्तनुरोमराजिः । हारोऽपि तन्त्रीरिति मन्मथस्य संगीतविद्यासरलस्य वीणा ॥' किमयं संज्ञा, असंज्ञा वा ? । असंज्ञापक्षे त्रिवलीशब्दस्य तद्धितार्थोत्तरपदसमाहारे च' इति समासो वक्तव्यः ; तत्तु न संघटते । तथाहि-न तावत् पञ्चकपाल इत्यादिवत् तद्धितार्थों विषयोऽस्ति । नापि पञ्चगवधन इत्यादिवदुत्तरपदं परम् । न चापि पञ्चपात्रमित्यादिवत् समाहारः ; समाहारे हि तस्यैकत्वादेकवद्भावे सति 'स नपुंसकम्' इति नपुंसकत्वं स्यात् । तदत्रासंज्ञापक्षो नेष्ट इत्यभिसंधाय संज्ञापक्षमाश्रित्य समासमाह-- त्रिवलीशब्दः सिद्धो यदि संज्ञेति । यदि त्रिवलीशब्दः संज्ञा भवति, तदा त्र्यवयवा वली त्रिवलीति विग्रहे 'दिक्संख्ये संज्ञायाम्' इति समासः सिध्यति ।

 बिम्बाधर इति । अत्र समासवृत्तिं संवेदयितुमभियुक्तप्रयोगं तावद्दर्श-


 1. अत्र वदन्ति- यदि त्रिवलीशब्दे सज्ञात्वात् 'दिक्सख्ये---' इत्यनेन समासः, तर्हि सप्तर्षय इतिवत् बहुवचनेन भाव्यम् । यदि च त्र्यवयवा वली इति व्याख्यातृप्रदर्शितो विग्रहः, तर्हि शाकपार्थिवादित्वात्समास इति 'दिक्संख्ये' इति समास इति व्याह्रतम् । समासान्तरान्तर्भावाभिप्रायेण तु कथचिन्मूले नेयमिति ।