पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१८४

पुटमेतत् सुपुष्टितम्
१६४
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 'धान्यषष्ठम्' 'तान्युञ्छषष्ठाङ्कितसैकतानि' इत्यादिषु न षष्ठीसमासप्रतिषेधः पूरणेन पूरणप्रत्ययान्तेन तद्धितान्तत्वात् षष्ठो भागः षष्ठ इति ; 'पूरणाद्भागे तीयादन्' 'षष्ठाटमाभ्यां ञ च' इत्यन्विधानात् ।

पत्रपीतिमादिषु गुणवचनेन ॥ १८ ॥

 'पत्रपीतिमा,' 'पक्ष्मालीपिङ्गलिम्नः' इत्यादिषु षष्ठीसमासप्रतिषेधो गुणवचनेन प्राप्तः, बालिश्यात्तु न कृतः।

अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः ॥ १९ ॥

 अवर्ज्यो न वर्जनीयो व्यधिकरणो बहुव्रीहिः । जन्मादि उत्तरपदं यस्य स जन्माधुत्तरपदः।

 यथा--'सच्छास्त्रजन्मा हि विवेकलाभः' 'कान्तवृत्तयः प्राणा:' इति ।

तान्तत्वादित्यर्थः । कः पुनरत्र पूरणप्रत्ययव्यतिरेकेण तद्धित इत्याकाङ्क्षायां तद्धितं दर्शयति---षष्ठो भाग इति । 'पूरणाद्भागे तीयादन्' इत्यनुवृत्तौ 'षष्ठाष्टमाभ्यां ञ च' इत्यन्विधानादन्यतद्धितान्तत्वमित्यर्थः ।

 पत्रपीतिमादिष्विति । अत्र ‘पूरणगुण' इत्यादिसूत्रेण गुणवाचिना षष्ठीसमासप्रतिषेधः प्राप्तः । स तु मौढ्यान्न कृतः । अतः पत्रपीतिमादयो न युक्ता इत्याह- पत्रपीतिमा': पक्ष्मालीपिङ्गीलम्नः इति । वर्तमानसामीप्ये' इति ज्ञापकात् पत्रपीतिमादय सिध्यन्तीति केचित् । येषां तु मतम् - गुणः संबन्धित्वाद्गुणिनमाक्षिपति । तेन गुणेन गुणिनः षष्ठीसमासनिषेधः । न च वर्तमानः सामीप्ये गुणी। भूतभविष्यतोरेव तद्गुणित्वादिति । तेषां मते 'उत्तरपदार्थप्राधान्ये' इति ज्ञापकादनित्यः षष्ठीसमासप्रतिषेध इति केचिदाचक्षते ।

 अवर्ज्य इति। 'बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्' इति वचनात् व्यधिकरणस्य बहुव्रीहेरसिद्धौ क्वचिद्विषये तत्प्रसिद्धिमाह-- अवर्ज्य इति । सच्छास्त्राज्जन्म यस्य स सच्छास्त्रजन्मा, कान्ते प्रिये वृत्तिर्येषां ते कान्तवृत्तय इति व्यधिकरणत्वम् । यत्र गमकत्वम् , तत्रेदं वेदितव्यम् ।