पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१८५

पुटमेतत् सुपुष्टितम्
[अधि. २.
१६५
कामधेनुसहिता।

हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ॥ २० ॥

 हस्ताग्रम् , अग्रहस्तः, पुष्पाग्रम् , अग्रपुष्पम् , इत्यादयः प्रयोगाः कथम् । आहिताग्न्यादिष्वपाठात् , पाठे वा तदनियमः स्यात् ? आह- गुणगुणिनोर्भेदाभेदात् । तत्र भेदात् हस्ताग्रादयः । अभेदात् अग्रहस्तादयः।

पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ २१ ॥

 काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति । तत्रापभ्रंशो रक्ष्यः परिहरणीयः । अनित्यत्वज्ञापनं तु न सर्वविषयमिति ।

निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात् ॥ २२ ॥

 हस्ताग्रेति । अत्र गुणशब्देन परार्थत्वसादृश्यादवयवो लक्ष्यते । तथा च गुणगुणिनाविहावयवावयविनौ । तयोर्भेदविवक्षायां हस्ताग्रादयः । तदा षष्ठीसमासः । अभेदविवक्षायां त्वग्रहस्तादयः । तदा अभेदोपचारेऽपि प्रवृत्तिनिमित्तभेदाद्विशेषणसमासः ॥

 पूर्वनिपात इति । 'लध्वक्षरं पूर्व निपतति' इति वार्तिककारवचनेन द्वन्द्वे पूर्वनिपातविधानात्तृणकाष्ठमिति वक्तव्ये काष्ठतृणमिति क्वचित् केनचित् प्रयुक्तम् । तत्र पूर्वनिपाते अपभ्रंशः शास्त्रमर्यादातिक्रमः । स रक्ष्यः परिहरणीयः, तथा न प्रयोक्तव्यमिति तात्पर्यम् । ' कुमारशीर्षयोः' इति ज्ञापकात् पूर्वनिपातव्यत्यासो' भविष्यतीति तत्राह- अनित्यत्वज्ञापनं त्विति । न सर्वेति । 'प्राप्तस्य चाबाधा' इति वचनाच्छिष्टप्रयुक्तद्वन्द्वविषयमेवेति भावः ।

 निपातेनापीति । ब्राह्मणं देवदत्त इति मन्यते' इत्यादौ 'अनभिहिते' इत्यधिकारात् तिङ्कृत्तद्धित्तसमासैरनभिहिते कारके कर्मणि द्वितीयया भवितव्यमित्याशङ्कायामाह-निपातेनापीति । तत्र हेतुमाह- परिगणनस्येति । भगवता बार्तिककारेण प्रायिकाभिप्रायेण 'तिङ्कृत्तद्धितसमासैः' इति परिगणनं कृत-