अवतरापचायशब्दयोर्दीर्घव्यत्यासो बालानाम् ॥ ४०॥
अवतरशब्दस्य, अपचायशब्दस्य च दीर्घत्वह्रस्वत्वव्यत्यासो बालानां बालिशानां प्रयोगेष्विति । ते ह्यवतरणमवतार इति प्रयुञ्जते-मारुतावतार इति; स ह्ययुक्तः, भावे तरतेरबिधानात् । अपचायमपचय इति प्रयुञ्जते-पुष्पापचय इति । अत्र 'हस्तादाने चेरस्तेये' इति घञ् प्राप्त इति ।
शोभेति निपातनात् ॥ ४१ ॥
शोभेत्ययं शब्दः साधुः, निपातनात् 'शुभ शुम्भ शोभार्थौ' इति । शुभेर्भिदादेराकृतिगणत्वादङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । शोभार्थावित्यत्रैकदेशे किं शोभा, आहोस्विच्छोभ इति विशेषावगतिराचार्यपरम्परोपदेशादिति ।
अविधौ गुरोः स्त्रियां बहुलं विवक्षा ॥ ४२ ॥
अविधौ ‘गुरोश्च हलः' इति अविधाने स्त्रियां बहुलं विवक्षा क्वचि-
दीर्घव्यत्यास इति । दीर्घस्य स्थानात् प्रच्याव्य अस्थाने करण व्यत्यासः । बालानां विमर्शविधुराणां भवतीति शेषः । तमेव व्यत्यासं दर्शयति-ते हीति । अब्विधानादिति । 'अवे तृस्रोर्घञ्' इति करणाधिकरणयोरेव घञ्विधानात् तरतेः 'ऋदोरप्' इति भावे अप्प्रत्यय एव भवतीत्यर्थः । अपचायामिति । 'हस्तादाने चेरस्तेये' इति हस्तेन आदानेऽभिधेये चिनोतेर्घञ्विधानादप्प्रत्ययो न प्राप्नोतीत्यर्थः ।
शोभेति । 'षिद्भिदादिभ्योऽङ्' इति शुभेर्धातोभिदादिषु पाठादङ्प्रत्यये सति ङित्करणेन गुणप्रतिषेधे प्रसक्ते निपातनाद्गुणासिद्धिरित्याह--शोभेत्ययं शब्द इति ।
अविधाविति । बहुलग्रहणस्य विवक्षितमर्थमाह--- क्वचिद्विवक्षा क्वचि-