पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१९५

पुटमेतत् सुपुष्टितम्
[अधि. २.
१७५
कामधेनुसहिता।

  'मन्द्रस्य मदिराक्षि पार्श्वतो
   निम्ननाभि न भवन्ति निम्नगाः ।
  वासु वासुकिविकर्षणोद्भवा
   भामिनीह पदवी विभाव्यते ॥

 अत्र मनुष्यजातेर्विवक्षायाम् ‘इतो मनुष्यजातेः' इति ङीषि सति 'अम्बार्थनद्योर्ह्रस्वः' इति संबुद्धौ हृस्वत्वं सिध्यति । नाभिशब्दात्पुनः 'इतश्च पाण्यङ्गात्' इतीकारे कृते निम्ननाभीके इति स्यात् ।

 हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम् ।

 च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्यामामिदं स्तनांशुकम् ॥


 अत्र निमग्ननाभेरिति मनुष्यजातेरविवक्षेति ङीष् न कृतः ।

 'सुतनु जहिहि मानं प्रश्य प्रादानतं माम्' इत्यत्र मनुष्यजातेर्विवक्षेति सुतनुशब्दात् 'ऊङुतः' इत्यूङि सति ह्रस्वत्वे सुतन्विति सिध्यति।


रित्यादयः प्रयोगा न सिध्येयुः । यदि नाभ्युपेयते, तर्हि संबुद्धौ निम्ननाभि, सुतनु इत्यादयः प्रयोगा न सिद्धाः स्युः । ततः कथं प्रयोगव्यवस्थेति विचारणायामुभयत्र साधुत्वं व्यवस्थापयति --- इतो मधुष्यजातेरिति । वक्तुर्विवक्षितपूर्विका हि शब्दप्रवृत्तिः' इति न्यायेन मनुष्यजातेर्विद्यमानाया अपि क्वचिद्विवक्षा, क्वचिदविवक्षा चेति लक्ष्यानुसारेणोत्प्रेक्षणीयेति प्रयोगदर्शनपूर्वकं विवक्षाविवक्षे व्युत्पादयति- मन्दरस्येति । अत्र मनुष्यजातिविवक्षायां रूपसिद्धिं दर्शयति---- इतो मनुष्यजातेरिति । ननु 'इतश्च प्राप्यङ्गवाचिनो वा वक्तव्यः' इति नाभिशब्दादीकारे कृते 'अम्बार्थनघोर्ह्रस्वः' इति ह्रस्वत्वे च कृते निम्ननाभीति संबुद्धिः सिध्यति; किमनेन यत्नेनेति चेत् तत्राह - नाभिशब्दादिति । निम्ननाभीत्यत्र बहुव्रीहिसमासे 'नघृतश्च' इति कपा समासान्तेन 'न कपि' इति ह्रस्वत्वप्रतिषेधेन च भवितव्यम् । ततश्च निम्ननाभीके इति स्यात् , न तु निम्ननाभि इति । इतो मनुष्यजातेः क्वचिदविवक्षां दर्शयति -- हृतोष्ठरागैरिति । उक्तन्यायेन सुतनुशब्दादौ विवक्षाविवक्षे दर्शयति- सुतनु जहिहीति ।