पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१९७

पुटमेतत् सुपुष्टितम्
[अधि. २.
१७७
कामधेनुसहिता।

शाश्वतमिति प्रयुक्तेः ॥ ५१ ॥

 शाश्वतं ज्योतिरित्यत्र शाश्वतमिति न सिध्यति, 'कालाट्ठञ्' इति ठञ्प्रसङ्गात् । 'येषां च विरोधः शाश्वतिकः' इति सूत्रकारस्यापि प्रयोगः । आह- प्रयुक्तेः । 'शाश्वते प्रतिषेधः' इति प्रयोगात् शाश्वतमिति भवति ।

राजवंश्यादयः साध्वर्थे यति भवन्ति ॥ ५२ ॥

 राजवंश्याः, सूर्यवंश्या इत्यादयः शब्दाः 'तत्र साधुः' इत्यनेन साध्वर्थे यति प्रत्यये सति साधवो भवन्ति । भवार्थे पुनर्दिगादिपाठेऽपि वंशशब्दस्य वंशशब्दान्तान्न यत्प्रत्ययः, तदन्तविधेः प्रतिषेधात् ।

दारवशब्दो दुष्प्रयुक्तः ॥ ५३ ॥

 दारवं पात्रमिति दारवशब्दो दुष्पयुक्तः। 'नित्यं वृद्धशरादिभ्यः' इति मयटा भवितव्यम् । ननु विकारावयवयोरर्थयोर्मयट् विधीयते ;


 'शाश्वते प्रतिषेधः' इति बार्तिककारवचनादत्र अण्प्रत्यये सति शाश्वतमिति शब्दः साधुरित्याक्षेपपूर्वकं समर्थयते-- शाश्वतं ज्योतिरिति ।

 राजवंश्यादय इति । वंशशब्दस्य दिगादिषु पाठात् 'दिगादिभ्यो यत्' इति भवार्थे यत्प्रत्ययो विधीयते । स च वंशशब्दान्तान्न प्राप्नोति, 'ग्रहणवता प्रातिपदिकेन----इति तदन्तविधिप्रतिषेधात् । साध्वर्थविवक्षायां तु तत्र साधुः' इति यत्प्रत्यये सति राजवंश्यादयः सिद्धा इत्याह---राजवंश्या इति ।

 दारवशब्द इति । दारुणो विकार इत्यस्मिन्नर्थे ' नित्यं वृद्धशरादिभ्यः' इति मयटो विधानात् दारुमयमिति प्रयोक्तव्यम् , न तु दारवमितीत्याह-दारवं पात्रमिति । नन्वत्र विकारार्थो न विवक्षितः, किं तु संबन्धसामान्यम् । ततः ' तस्येदम्' इति दारुशब्दादण्प्रत्यये कृते दारवमित्येवं भवतु; को विरोध इति शङ्कते---नन्विति । संबन्धसामान्यविवक्षायामप्यण्प्रत्ययो न सिध्यति, 'वृद्धा-

23