पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२०७

पुटमेतत् सुपुष्टितम्
[अधि. २.
१८७
कामधेनुसहिता।

देशेन भवितव्यम् । आह-- अणिजन्तत्वात् । धातोर्णिच् तु न, गतार्थत्वात् ; यथा - वाचं नियच्छति इति । णिजानवगतौ णिच् प्रयुज्यते एव; मथा--- संयमयितुमारब्ध इति ।

प्रपीयेति पीङः ॥ ७७ ॥

 प्रपीयेत्ययं शब्दः 'पीङ् पाने' इत्येतस्य । पिबतेर्हि 'न ल्यपि' इतीत्वप्रतिषेधात् प्रपायेति भवति ।

दूरयतीति बहुलग्रहणात् ॥ ७८ ॥

 'दूरयत्यवनते विवस्वति' इत्यत्र दूरयतीति कथम् ? ‘णाविष्ठवद्भावे 'स्थूलदूर-' इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्यम् । आह-बहुलग्रहणात् । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' इत्यत्र बहुलग्रहणात् स्थूलदूरादिसूत्रेण यद्विहितं तन्न भविष्यतीति ।

गच्छतीप्रभृतिष्वनिषेध्यो नुम् ॥ ७९ ॥

माह--- अणिजन्तत्वादिति । णिजभावाण्णेरयादेशो न प्रसज्ज्यत इत्यर्थः । ननु प्रयोजकव्यापारप्रतीतौ णिच्प्रत्ययः किं न स्यादित्यत आह-- णिच् तु नेति। गतार्थत्वात् प्रयोजकव्यापारशून्यस्य सकर्मकस्य प्रकृत्यर्थस्य धातुनैवाभिहितत्वादित्यर्थः । तत्र दृष्टान्तमाह-- यथा वाचमिति । यत्र णिजर्थः स्वभावतो नावगम्यते तत्र णिच् प्रयुज्यत एवेति दर्शयति--णिजर्थानवगताविति ।

 प्रेपीयेति । पीङ् पाने' इति धातोर्व्यबन्तमिदम्, न तु पिबतेः । तस्य 'न ल्यपि' इतीत्वप्रतिषेधादित्याह-- पिबतेरिति ।

 दूरयतीति प्रयोगस्य साधुत्वं समर्थयितुं शङ्कामिमामङ्कुरयति- दूरयतीति । शेषं सुगमम् ।

 गच्छतीप्रभृतिष्विति । 'शप्श्यनोर्नित्यम्' इति नित्यं नुमागमस्य विधानात् गच्छतीत्यादयो न साधव इत्यर्थः ।