पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२०९

पुटमेतत् सुपुष्टितम्
[अधि. २.
१८९
कामधेनुसहिता।

 सुहृदयदुर्हृदयशब्दाभ्यां युवादिपाठादणि कृते हृदयस्य हृद्भावे आदिवृद्धौ सौहृददौर्हृदशब्दौ भवतः । सुहृद्दुर्हच्छब्दाभ्यां युवादिपाठादेवाणि कृते 'हृद्भगसिन्ध्वन्ते-' इति हृदन्तस्य तद्धितेऽणि सत्युभयपदवृद्धौ सत्यां सौहार्दं दौर्हार्दमिति भवति ।

विरम इति निपातनात् ॥ ८४ ॥

 रमेरनुदात्तोपदेशत्वात् 'नोदात्तोपदेशस्य-' इत्यादिना वृद्धिप्रतिषेधस्याभावात् कथं विरम इति ? आह--निपातनात् 'यम उपरमे' इत्यत्र उपरमे इति । एतत्तु उपलक्षणम्, अतन्त्रं च उपोपसर्ग इति ।

उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ॥ ८५ ॥


हसिद्धाभ्यां सुहृदयदुर्हृदयशब्दाभ्यां भावार्थे 'हायनान्तयुवादिभ्योऽण्' इत्यणि कृते सति' हृदयस्य त्दृल्लेखयदण्लासेषु' इति हृदादेशे ‘तद्धितेष्वचामादेः' इत्यादिवृद्धौ च सत्यां सौहृददौर्हृदशब्दौ सिद्धौ । अत्र हृच्छब्दस्य लाक्षणिकत्वात् 'हृद्भगसिन्ध्वन्ते--' इत्यत्र प्रतिपदोक्तस्य ग्रहणादुभयपदवृद्ध्यभावः । शोभनं हृद् यस्य, दुष्टं हृद् यस्येति विग्रहे, सिद्धाभ्यां सुहृदुर्हृच्छब्दाभ्यां युवादिपाठादणि कृते 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धौ सौहार्दं दौर्हादमिति च सिद्धमिति व्याचष्टे --- सुहृदय इत्यादिना ।

 विरम इति। विरमेर्मान्तत्वेऽपि अनुदात्तोपदेशत्वात्, 'नोदात्तोपदेशस्य---' इत्यादिना वृद्धिप्रतिषेधाभावात् वृद्धौ सत्यां विराम इति युक्तं प्रयोक्तुम्, कथं विरम इति प्राप्ते, 'यम उपरमे' इत्यत्र निपातनात् सिध्यतीति दर्शयति-- रमेरिति। उपरम इति निपातेन विरम इत्यस्य किमायातमिति तत्राह -- एतत्त्विति । एतत्तु निपातनं सोपसर्गस्य रमेरुपलक्षणमित्यवगन्तव्यम् ।

 उपर्यादिष्विति । 'उपर्यध्यधसः सामीप्ये' इत्युपर्यादीनां सामीप्यार्थे द्विवचनविधानात् द्विरुक्तैस्तैर्योगे सति द्वितीयाविभक्तिर्भवति । वीप्सायां तु