पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२४

पुटमेतत् सुपुष्टितम्
[अधि. १.
काव्यालंकारसूत्रवृत्तिः

काव्यं ग्राह्यमलंकारात् ॥ १ ॥

 काव्यं खलु ग्राह्यमुपादेयं भवति, अलंकारात् । कायशब्दोऽयं गुणालंकारसंस्कृतयोः शब्दार्थयोर्वर्तेते । भक्त्या तु शब्दार्थमात्रवच- नोऽत्र गृह्यते ॥

लोचनकारः। कवयति इति कविः, तस्य कर्म काव्यम्' इति विद्याधरः । कौति शब्दायते विमृशति रसभावान् इति कवि. तस्य कर्म काव्यम्' इति भट्टगोपालः । 'लोकोत्तरवर्णनानिपुणकविकर्म काव्यम्' इति काव्यप्रकाशकारः । भामहोऽपि प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता । तदनुप्राणनाजीवेद्वर्णनानिपुणः कविः ॥ तस्य कर्म स्मृतं काव्यम्' इति । तदेतत्काव्यशब्दव्युत्पत्तिकथनम् । चारुताशालि- शब्दार्थयुगलं काव्यमिति रूढोऽर्थः । तस्य अलंकारः अलंकृतिः । भावे घञ् । दोषहानगुणालंकारादानाभ्यामाधीयमानं सौन्दर्यमिति यावत् । तत्प्रतिपादकानि सूत्राणि, तेषाम् । सूत्रलक्षणमुक्तं भामहेन, <ref>अल्पाक्षरमसदिग्ध सारवत्सर्वतोमुखम् । अस्तोभतोमनवद्यं च सूत्रं सूत्रविदोविदुः ॥’<ref>अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । सम्यक्संसूचितार्थं यत्तत्सूत्रमिति कथ्यते ॥ इति । स्वेषामिति। सूत्रवृत्त्योरेककर्तृकत्वप्रतिपादनेन सूत्रकाराभिमतार्थप्रतिपादिनी वृत्तिः, वृत्तेरन्यकर्तृकत्व- शङ्काविरहश्चेत्युभयमप्युपक्षिप्यते । वर्तते अस्यां सूत्राणां यथावत्पदपदार्थविवेक इति वृत्तिः । अधिकरणार्थे क्तिन्प्रत्ययः । वृत्तिलक्षणमुक्तं भामहेन, सूत्रमात्र- स्य या व्याख्या सा वृत्तिरभिधीयते ।' इति । “काव्यालंकारसूत्राणां वृत्तिः' इत्य- नेन विषयसंबन्धौ सूचितौ। कविप्रिया' इत्यनेन अधिकारिप्रयोजने सूचिते । तदेतदनुबन्धचतुष्टयमुत्तरत्र विस्तरेण प्रतिपादयिष्यते ।

 ननु काव्यस्य कः पुनरलंकारादुपकारः, येन प्रतिज्ञायमानं तत्सूत्रवृत्तिविधानं सफलं स्यादिति शङ्कामपनेतुमलंकारप्रयेाजनप्रतिपादकमादिमं सूत्रमुपादत्ते- काव्यमिति। खलु शब्दो वाक्यालंकारे। यद्वक्ष्यति * बाक्यालंकारप्रयोजनं तु नानर्थकम् , यथा-खलु हि हन्त' इति । काव्योपादाननिदानत्वादलंकारो भवत्युपयोगीति भावः । ननु काव्यमेव तावदुपादेयं चेत् , अलंकारस्यापि तदुपादानहेतुत्वमुपपद्येत । तत्सूत्रवृत्तिविधानं च सफलं स्यात् । तस्योपादेयत्वमेव कुत इति चेत् अत्र वक्त-