पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/३१

पुटमेतत् सुपुष्टितम्
अ. १.]
११
कामधेनुसहिता।

 काव्यं सत् चारु दृष्टप्रयोजनम् , प्रीतिहेतुत्वात् । अदृष्टप्रयोजनम् , कीर्तिहेतुत्वात् । अत्र श्लोका:----

  'प्रतिष्ठां काव्यवन्धस्य यशसः सरणिं विदुः ।
  अकीर्तिवर्तनीं त्वेवं कुकवित्वविडम्बनाम् ॥
  कीर्तिं स्वर्गफलामाहुरासंसारं विपश्चितः ।
  अकीर्तिं तु निरालोकनरकोदेशदूतिकाम् ॥

चार्विति । सालंकारतया सुन्दरमित्यर्थः । दृष्टादृष्टौ ऐहिकामुष्मिकौ अर्थौ यस्येति विग्रहः । अत्र यथासंख्यं संबन्धं दर्शयति- दृष्टप्रयोजनमिति । अत्र प्रीतिशब्देन श्रवणसमनन्तरमेव सहृदयहृदयेषु जायमाना या रसास्वादलक्षणा, या च पुनरिष्टप्राप्त्यनिष्टपरिहारनिबन्धना, सेयमुभयविधा प्रीतिर्विवक्षिता । तथा च सति, साक्षात्परंपरया चैहिकप्रीतेः साधनत्वात्काव्यं दृष्टार्थमित्यर्थः । ननु कीर्तिरपि स्वर्गसाधनतया प्रयोजनमिति वक्तव्यम् । स्वर्गपदार्थोऽपि प्रीतिरेव । तथा च सति, प्रीतिहेतुत्वादित्युक्ते विवक्षितार्थसिद्धेः किं हेत्वन्तरोपादानगौरवेणेति चेत् , सत्यम् । 'यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ॥' इत्युक्तलक्षणाया दृष्टप्रीतिविलक्षणाया अदृष्टप्रीतेः पृथङ्निरूपणीयत्वात्काव्यस्य तन्मूलतया लोकातिशयवत्त्वं प्रकटितमिति हेत्वन्तरमुपात्तमिति द्रष्टव्यम् ।

 अमुमेवार्थमन्वयव्यतिरेकाभ्यामभियुक्तोक्तिसंवादेन समर्थयते---

 अत्र श्लोका इति । प्रतिष्ठा सहृदयहृदयानुरञ्जकतया लोकोत्कर्षेण स्थितिः । सरणिः पद्धतिः। 'अकीर्तिवर्तनीम्' इत्यत्र नञ् तद्विरोधिनमर्थमाचष्टे । यथा अनृताधर्माविद्यादयः ऋतधर्मविद्यादीनां प्रतिपक्षाः, तथा अकीर्तिरपि कीर्तेविरोधिनी; तस्या वर्तनी एकपदी । 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च।' इत्युभयत्राप्यमरः । आसंसारं यावन्न मोक्षः, कीर्तेर्यावत्प्रसरणं वा । निरालोकः तेजोमात्रशून्यः, तमोमय इति यावत् । नरकः दुर्गतिः । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।' इत्यमरः । तस्य उद्देशः प्रदेशः, तस्य दूतिका प्रापयित्रीति यावत् । प्रसाद्यः विशेषतो विमर्शेन विशदीकर्तव्यः ।