यदाह--
पूर्वे शिष्या विवेकित्वात् ॥ २ ॥
पूर्वे खल्वरोचकिनः, शिष्याः शासनीयाः। विवेकित्वात् विवेचनशीलत्वात् ।
नेतरे तद्विपर्ययात् ॥ ३ ॥
इतरे सतृणाभ्यवहारिणः, न शिष्याः । तद्विपर्ययात् अविवेचनशीलत्वात् । न च शीलमपाकर्तुं शक्यम् ॥
नन्वेवं न शास्त्रं सर्वानुग्राहि स्यात् , को वा मन्यते ? तदाह-
न शास्त्रमद्रव्येष्वर्थवत् ॥ ४ ॥
उक्तस्य गौणार्थस्य उपपादकमधिकारिनिश्चायकं सूत्रमवतारयति । यदाहेति । अथ ‘नेतरे' इति सूत्रारम्भः किमर्थः । विवेकिनः शिष्या इत्युक्ते अविवेकिनः पुनरशिष्या इति गम्यत एव, तथाप्यासूत्र्यमाणं पुनरुक्तिं पुष्णाति ; ' अर्थादापन्नस्य पुनर्वचनं पुनरुक्ति.' इति न्यायादिति-सत्यम्-यथा 'धूमध्वजाभावे धूमाभावः' इति यावद्व्यतिरेको न दर्शितः, तावत् 'सति धूमध्वजे धूमः' इति साहचर्यमात्रदर्शनान्न कार्यकारणाभावनिश्चयः; तथैवात्रापि व्यतिरेकदर्शनमन्वयदार्ढ्यायेति युज्यत एव सूत्रारम्भः । वृत्तिः स्पष्टार्था ।
ननु शीलितं शास्त्रमविवेकमपाकरोति, तत्त्वविवेकस्य तज्जन्यत्वात् । अतः कथमविवेकिनो न शिष्या इति शङ्कां शकलयति--न चेति ।
यद्येवं विरलस्तर्हि विद्ययोपयोग इति शङ्कते– नन्विति । अभ्युपगमेन परिहरति-को वा मन्यत इति । शास्त्रं सर्वानुग्राहीत्यनुषज्यते । न कश्चिदपि तथा मन्यत इति फलितोऽर्थः ।
विधीयमानोऽपि विवेकविधुरेषु विद्योपदेशो विपिनविलापवद्विफ़ल इत्याह -न शास्त्रमिति । शास्त्रोपदेशद्वारा यत्र सद्भिराधीयमाना गुणाः संक्रामन्ति,