पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/३७

पुटमेतत् सुपुष्टितम्
[अधि. २.
१७
कामधेनुसहिता।

 सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति ॥ ९ ॥

सा चेयं रीतिस्त्रिधा भिद्यते--वैदर्भी, गौडीया, पाञ्चाली चेति ।

किं पुनर्देशवशाद्रव्यवगुणोत्पत्तिः काव्यानाम् , येनायं देशविशेषव्यपदेशः ? नैवम् । यदाह--

विदर्भादिषु दृष्टत्वात्तत्समाख्या ॥१०॥

विदर्भगौडपाञ्चालेषु देशेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वादेशसमाख्या । न पुनर्देशैः किंचिदुपक्रियते काव्यानाम्।

 तासां गुणभेदाद्भेदमाह--

समग्रगुणोपेता वैदर्भी ॥ ११ ॥

समग्रैः ओजःप्रसादप्रभृतिभिः गुणैः उपेता वैदर्भी नाम रीतिः ।

अत्र श्लोकः-

  'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्भिता ।
  विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥'


रीतिं विवेक्तुमाह- सा त्रेधेति । सकलगुणसध्रीचीनत्वेनाभ्यर्हितत्वाद्वैदर्भ्याः प्रथमं निर्देशः । अनन्तरयोरुभयोः स्तोकगुणत्वेऽपि प्रशस्तगुणसंस्कृ- तत्वादनन्तरं गौडीयायाः, अवशिष्टाया अन्ते निवेशः ।

किं पुनरिति । यथा लवणादयः पदार्थाः सिन्ध्वादिदेशवशाद्विशिष्टगुणा भवन्ति, तथा किं देशवशाद्विशिष्टानि काव्यानीति शङ्कार्थः । समाधत्ते- नैवमिति । विदर्भादिपदैरुपचाराद्विदर्भादिदेशस्थाः कवयो वक्ष्यन्ते ; अन्यथा विदर्भादिपदानां क्षत्रियवृत्तित्वे अर्थासंगतिः, जनपदवृत्तित्वे 'जनपदतदवध्योश्च' इति गौडशब्दात् 'अवृद्धादपि बहुवचनविषयात्' इति विदर्भपञ्चालशब्दाभ्यां च बुञ्प्रत्ययप्राप्तौ शब्दासंभातिश्चेत्यनुसंधेयम् । विदर्भपञ्चालशब्दाभ्यां 'शेषे' इत्यण्प्रत्ययः, गौडशब्दात् वृद्धाच्छः' इति छप्रत्ययः । स्पष्टमवशिष्टम् ॥

 प्रतिपादितेऽर्थे प्रावादुकपद्यं प्रमाणयति-- अत्र श्लोक इति । दोषमा-