पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/३८

पुटमेतत् सुपुष्टितम्
१८
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

 नामेतामेवं कवयः स्तुवन्ति-

  'सति वक्तरि सत्यर्थे सति शब्दानुशासने ।
  अस्ति तन्न विना येन परिस्रवति वाङ्मधु ॥'

 उदाहरणम्----

  'गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
   छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।


त्राभिः असाधुत्वादिदोषलेशैरपि । अस्पृष्टा असंबद्धा, अनुपगतदोषमात्रसंबन्धेति यावत् । ' मात्रा परिच्छदे वर्णमाने कर्णादिभूषणे । सैवाल्पपरिमाणे च' इति नानार्थरत्नमाला । समग्रैः अन्यूनैः गुणैः ओजःप्रसादादिभिः गुम्भिता संघटिता । विपञ्ची वीणा । 'वीणा तु वल्लकी । विपञ्ची' इत्यमरः । तस्याः खराः श्रोतृमनोरञ्जकाः षड्जादयोऽत्र विवक्षिताः न तु क्वणनमात्रम् ; तस्य मनोरञ्जकत्वाभावात् । तदुक्तं संगीतरत्नाकरे, ' श्रुत्यनन्तरभावी यः शब्दोऽनुरणनात्मकः । स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ॥' इति । षड्जादिषु रूढश्चायम् । तथा चाञ्जनेये, 'स्वरशब्दो मयूरादिसमुत्पन्नेषु सप्तसु । षड्जादिष्वेव रूढोऽयमतो नैवाक्षु वर्तते॥' इति । तेषां सौभाग्यमिव सौभाग्यं यस्या इति विग्रहः ॥

 किंच, अस्याश्चर्वणीयरसचमत्कारकारितया समग्रसौन्दर्यशालितया च कविकुलोपलालनीयतामाकलयति----तामेतामिति । सतीति। सच्छब्दोऽत्र साध्वर्थः । 'सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् । इत्यमरः । वक्ता कविः । अर्थ: अपूर्वतयोल्लिखितः । शब्दानुशासनम् अनुशिष्टः शब्द आकाङ्क्षायोग्यतादिविशिष्टश्च । वक्तरि शब्दे च अर्थे च साधौ सत्यपि येन विना वाङ्मधु वाचां मधु न परिस्रवति न स्यन्दते; तद्वैदर्भीनामकं वस्त्वस्तीति योजना । ईह मधुब्देन मुख्यार्थासंभवात्सहृयहृदयैरास्वाद्यः समग्रसौन्दर्यसमुन्मिषितो रसो लक्ष्यते ।

 उक्ताया रीतेरुदाहरणमुपदर्शयितुमाह-उदाहरणमिति । उच्यत इति शेषः । “वैदर्भीरीतिसंदर्भे कालिदासः प्रगल्भते' इति दर्शयितुं तदीयं पद्यमुदाहरति---- गाहन्तामिति । एषा हि शकुन्तलाविलोकनोत्कलिकावशंबदर्हृदयस्य मृगयाविहाराद्विरिरंसतो दुष्यन्तस्योक्तिः । महिष्यश्च महिषाश्च महिषाः । 'पुमा-